राष्ट्रपतये रायपुरे आयोजिष्यमाणे नुआखाई पर्वणि सम्मेलितुं दत्तं निमंत्रणम्
रायपुर, 09 अगस्तमासः (हि.स.)। नवदिल्लीनगरस्थिते राष्ट्रपतिभवने विधायकः पुरन्दरमिश्रः राष्ट्रपतिना द्रौपदीमुर्मू इत्येतया सह साक्षात्कारं कृतवान्। अस्मिन् अवसरे सः राष्ट्रपतिं रायपुरनगरे आयोज्यमाने नुआखाईपर्वणि सम्मिलितुं निमन्त्रणं प्रदत्तवान्। अ
विधायक पुरंदर मिश्रा राष्ट्रपति द्रौपदी मुर्मू काे नुआखाई पर्व में शामिल हाेने का निमंत्रण देते हुए


रायपुर, 09 अगस्तमासः (हि.स.)।

नवदिल्लीनगरस्थिते राष्ट्रपतिभवने विधायकः पुरन्दरमिश्रः राष्ट्रपतिना द्रौपदीमुर्मू इत्येतया सह साक्षात्कारं कृतवान्। अस्मिन् अवसरे सः राष्ट्रपतिं रायपुरनगरे आयोज्यमाने नुआखाईपर्वणि सम्मिलितुं निमन्त्रणं प्रदत्तवान्। अस्मिन् अवसरे भाजपाविधायकेन राष्ट्रपतिः छत्तीसगढस्य समृद्धया संस्कृत्या, लोकपरम्पराभिः, सामाजिकसमरसतया नुआखाईपर्वणः सांस्कृतिकमहत्त्वेन च परिचितः कृतः।

विधायकः पुरन्दरमिश्रः अवदत् यत् नुआखाई केवलं पर्व नास्ति, अपि तु नवसस्यस्य, प्रकृतेः प्रति कृतज्ञतायाः, पारिवारिकैकतायाः सामाजिकसद्भावस्य च प्रतीकम् अस्ति। भगवान् श्रीजगन्नाथस्य पावनपरम्परया सम्बद्धस्य अस्य आयोजनस्य छत्तीसगढे विशिष्टं सांस्कृतिकम् आध्यात्मिकं च महत्त्वम् अस्ति।

विधायकः पुरन्दरमिश्रः अवदत् यत् राष्ट्रपतिं मुर्मूमहोदयां नुआखाईपर्वणि सम्मिलितुं निमन्त्रणं प्रदातुं तस्य कृते अत्यन्तं गौरवस्य सौभाग्यस्य च विषयः अस्ति। सः अवदत् यत् राष्ट्रपतेः मुर्मूमहोदयायाः सान्निध्यं छत्तीसगढस्य सांस्कृतिकविरासतायै भगवान् श्रीजगन्नाथस्य भक्तिपरम्परायै च गौरवस्य विषयः भविष्यति। अनेन प्रदेशस्य समृद्धसंस्कृतेः देशव्यापिनी नूतना परिचितिः भविष्यति।

सः अवदत् यत् नुआखाईपर्व अस्माकं संस्कृतेः, परम्परायाः, सामाजिकैकतायाश्च उत्सवः अस्ति, यः जनान् स्वमूलैः, स्वमृत्तिकया, स्वपरम्पराभिश्च सह संयोजयति। रायपुरस्य श्रीजगन्नाथमन्दिरे आयोज्यमानम् इदं पर्व श्रद्धायाः, संस्कृतेः, सामाजिकसमरसतायाश्च सुन्दरं सङ्गमं भविष्यति।

---------------

Hindusthan Samachar / Dheeraj Maithani