मध्यप्रदेशस्य भोपालनगरे अद्य विशाल-त्रिवर्णध्वजयात्रा निष्कास्यते
भोपालम्, ०९ अगस्तमासः (हि.स.)। मध्यप्रदेशस्य राजधान्यां भोपालनगरे अद्य रविवासरे विशाल-त्रिवर्णध्वजयात्रा निष्कास्यते। मुख्यमन्त्रिणः डॉ. मोहनयादवस्य मुख्यातिथ्ये टी.टी. नगर-क्रीडाङ्गणे आयोजितायां अस्यां त्रिवर्णध्वजयात्रायां जनप्रतिनिधीनां, क्रीडका
सीएम मोहन यादव (फाइल फोटो)


भोपालम्, ०९ अगस्तमासः (हि.स.)। मध्यप्रदेशस्य राजधान्यां भोपालनगरे अद्य रविवासरे विशाल-त्रिवर्णध्वजयात्रा निष्कास्यते। मुख्यमन्त्रिणः डॉ. मोहनयादवस्य मुख्यातिथ्ये टी.टी. नगर-क्रीडाङ्गणे आयोजितायां अस्यां त्रिवर्णध्वजयात्रायां जनप्रतिनिधीनां, क्रीडकाणां, विद्यार्थिनां, यूनां, सामाजिकानां स्वयंसेवीसंस्थानां च प्रतिनिधीनां, अधिकारिणां कर्मचारिणां च सहितं बहुसंख्यकानां नागरिकानां सहभागिता भविष्यति।

जनसम्पर्काधिकारी अरुणशर्मा इत्यस्य अनुसारं ‘हर घर तिरंगा-अभियानस्य’ अन्तर्गतं आयोजितायाः अस्याः यात्रायाः उद्देश्यं नागरिकेषु राष्ट्रध्वजस्य प्रति सम्मानभावं, राष्ट्रभक्तिं, राष्ट्रियैकतां तथा जनसहभागितायाः भावनां च सुदृढां कर्तुम् अस्ति। जनपद-पुरातत्त्व-पर्यटन-संस्कृति-परिषद्, भोपाल द्वारा आयोजितैषा यात्रा राष्ट्रीयगौरवस्य, सामाजिक-समरसतायाः तथा देशस्य एकतायाः अखण्डतायाश्च सन्देशं प्रदास्यति।

जनपदप्रशासनेन भोपालस्य सर्वेभ्यः नागरिकेभ्यः राष्ट्रीयगौरवस्य अस्मिन् आयोजने उत्साहपूर्वकं सहभागितां कृत्वा त्रिवर्णध्वजयात्रां गरिमामयीं सफलां च कर्तुं आह्वानं कृतम् अस्ति।

Hindusthan Samachar / Divya Ranjan