Enter your Email Address to subscribe to our newsletters

जबलपुरम्, ०९ अगस्तमासः (हि.स.)। विश्व-आदिवासी-दिवसस्य अवसरे अद्य रविवासरे प्रातः ११ वादनात् जबलपुरस्य राजा शंकरशाह-कुँवररघुनाथशाह-संग्रहालयात् मण्डलाजनपदस्य रामनगर-चौगानपर्यन्तं मोटरसाइकिल-अभि-यानस्य धरोहर-पदभ्रमणस्य च आयोजनं क्रियते।
मध्यप्रदेश-पर्यटन-मण्डलस्य, जबलपुर-पुरातत्त्व-पर्यटन-संस्कृति-परिषदः, तथा होम-स्टे-स्वामिनां कल्याणसमितेः च संयुक्ततत्त्वावधाने आयोजितां इमां मोटरसाइकिल-यात्रां जबलपुरात् जनपदाधिकारी राघवेन्द्रसिंहः, एमपीटीबी-संस्थायाः कौशल-प्रशिक्षणविभागस्य निदेशकः डॉ. डी.पी.सिंहः, साहसिक-पर्यटनस्य संयुक्तसञ्चालकः डॉ. एस.के.श्रीवास्तवः, जेएटीसीसी-संस्थायाः मुख्यकार्यपालनाधिकारी पीयूषदुबे तथा एमपीटी-संस्थायाः क्षेत्रीयप्रबन्धकः नवीनशर्मा च प्रस्थापयिष्यन्ति।
मण्डलनगरे यात्रायाः स्वागतं तथा ध्वजप्रदर्शनं रामनगरे मण्डलाजनपदस्य जनपदाधिकारी, जनपद-पञ्चायत्-मण्डलस्य मुख्यकार्यपालनाधिकारी तथा जनपद-पुरातत्त्व-पर्यटन-संस्कृति-परिषदः मण्डलस्य पदाधिकारिणः च करिष्यन्ति।
मोटरसाइकिल-अभियाने २० मोटर-साइकिलचालकाः जबलपुरात् चौगान-पर्यन्तं गमिष्यन्ति। ततः ते अत्र निर्मिते आदिवासी-गृहनिवासे रात्रिभोजनं करिष्यन्ति तथा तत्रैव विश्रामं करिष्यन्ति। अस्य दलस्य सदस्याः द्वितीयदिने कालापर्वते धरोहर-पदभ्रमणं करिष्यन्ति। मोटरसाइकिलचालकाः ‘द स्टॉर्म लार्डस बाइक क्लब’, ‘एडवेञ्चर स्पोर्ट्स एण्ड रॉक क्लाइम्बिङ्ग एसोसिएशन ऑफ इण्डिया’ इत्यादीनां संस्थानां सदस्याः सन्ति।
अस्य आयोजनस्य उद्देश्यं आदिवासी-गौरवस्य, संस्कृतेः तथा स्वातन्त्र्य-सङ्ग्रामस्य इतिहासस्य च जनसामान्येषु प्रचारं प्रसारं च कर्तुं तथा मध्यप्रदेशस्य विरासत्-पर्यटनस्य पारिस्थितिकी-पर्यटनस्य च प्रोत्साहनं कर्तुम् अस्ति। तत्सह ग्रामीणपर्यटनस्य ग्रामीण-गृहनिवासस्य च माध्यमेन युवापीढीं रात्रिविश्रामेन सह आदिवासी-ग्रामीणानां भोजनपद्धत्या, सत्कारेण आतिथ्यसेवाभिश्च परिचितां कर्तुम् अपि अस्य आयोजनस्य उद्देश्यं वर्तते।
यात्रायाः समये प्रतिभागिनः राजाशंकर-शाहस्य कुँवररघुनाथशाहस्य च बलिदानं नत्वा आदिवासीसंस्कृतेः, लोककलायाः तथा क्षेत्रीयपर्यटनस्थलानां च प्रचारं प्रसारं च करिष्यन्ति।
Hindusthan Samachar / Divya Ranjan