नवदिल्ल्यां 7तमे अंताराष्ट्रिय नवीकरणीय ऊर्जा सम्मेलने मध्य प्रदेशाय अमिलत्प्रशंसा
- दिल्ली मेट्रोविभिगः मध्य प्रदेश सर्वकारस्य विद्युत आपूर्तये प्रकटितः आभारः भोपालम्, 09 अगस्तमासः (हि.स.)। गतदिवसेषु दिल्लीनगरे आयोजिते सप्तमे अन्ताराष्ट्रियसम्मेलने मध्यप्रदेशाय प्रशंसा प्राप्ता अस्ति। दिल्लीमेट्रोविभागस्य महानिदेशकः प्रमितग
7वें अंतरराष्ट्रीय नवकरणीय ऊर्जा सम्मेलन के दौरान मुख्यमंत्री मोहन यादव दिल्ली मेट्रो की सवारी करते हुए (फाइल फोटो)


7वें अंतरराष्ट्रीय नवकरणीय ऊर्जा सम्मेलन के दौरान मुख्यमंत्री मोहन यादव दिल्ली मेट्रो की सवारी करते हुए (फाइल फोटो)


7वें अंतरराष्ट्रीय नवकरणीय ऊर्जा सम्मेलन में प्रदर्शनी का अवलोकन करते हुए मुख्यमंत्री मोहन यादव (फाइल फोटो)


- दिल्ली मेट्रोविभिगः मध्य प्रदेश सर्वकारस्य विद्युत आपूर्तये प्रकटितः आभारः

भोपालम्, 09 अगस्तमासः (हि.स.)।

गतदिवसेषु दिल्लीनगरे आयोजिते सप्तमे अन्ताराष्ट्रियसम्मेलने मध्यप्रदेशाय प्रशंसा प्राप्ता अस्ति। दिल्लीमेट्रोविभागस्य महानिदेशकः प्रमितगर्गः दिल्लीमेट्रोस्य कृते मध्यप्रदेशसर्वकारेण कस्यापि निवेशं विना निरन्तरविद्युत्प्रदायस्य कृते कृतज्ञतां प्रकटितवान्। सम्मेलनस्य शुभारम्भावसरे मुख्यमन्त्री डॉ. मोहनयादवः प्रदेशे नवीकरणीय ऊर्जाक्षेत्रे क्रियमाणानां उल्लेखनीयकार्याणां कृते आमन्त्रितः सन् सम्मानितः।

एषा सूचना रविवासरे प्रदेशस्य नवीननवीकरणीय ऊर्जामन्त्री राकेशशुक्लेन प्रदत्ता। सः अवदत् यत् मुख्यमन्त्री डॉ. यादवः गतदिवसेषु दिल्लीनगरे आयोजितस्य सप्तमस्य अन्ताराष्ट्रियसम्मेलनस्य स्थलपर्यन्तं विमानस्थानकात् मेट्रोरेलयानेन यात्रां कृतवान्। अस्मिन् अवसरे सः अवदत् यत् अस्माकं कृते गौरवस्य विषयः अस्ति यत् दिल्लीमेट्रोरेलयानसेवा वर्षद्विसहस्राष्टादशतः मध्यप्रदेशेन प्रदीयमानेन विद्युत्प्रवाहेण सञ्चालिता भवति।

मुख्यमन्त्री अवदत् यत् दिल्लीमेट्रोसञ्चालनाय मध्यप्रदेशसर्वकारेण वर्षद्विसहस्रचतुश्चत्वारिंशत् पर्यन्तं निरन्तरं विद्युत्प्रदायः करिष्यते। नवीदिल्लीनगरे आयोजिते अन्तर्राष्ट्रीयसम्मेलने मध्यप्रदेशे नवीकरणीय ऊर्जायाः प्रोत्साहनाय क्रियमाणेषु उल्लेखनीयकार्येषु सः यदा प्रस्तुतीकरणं प्रदर्शयति स्म, तदा पृष्ठभूमौ प्रदर्शके दिल्लीमेट्रोयात्रासम्बद्धानि चित्राणि प्रदर्शितानि आसन्। अन्तर्राष्ट्रीयप्रतिनिधिभिः मध्यप्रदेशस्य कार्याणां प्रशंसा कृता।

मुख्यमन्त्री डॉ. यादवः सम्मेलने अवदत् यत् मध्यप्रदेशः वर्षद्विसहस्रत्रिंशत्पर्यन्तं देशस्य पञ्चशतगीगावाट् जीवाश्मेतरऊर्जाक्षमतायाः राष्ट्रियं लक्ष्यं प्राप्तुं पूर्णप्रतिबद्धतया कार्यं करोति। राज्यं नवीकरणीयऊर्जायाः, ऊर्जाभण्डारणस्य, हरितऔद्योगिकविकासस्य च क्षेत्रेषु द्रुतगत्या अग्रे गच्छति। मध्यप्रदेशः अद्य देशस्य अग्रगण्येषु राज्येषु स्वकीयां विशिष्टां परिचितिं स्थापितवान् अस्ति।

नवीदिल्लीनगरे आयोजितस्य सप्तमस्य अन्तर्राष्ट्रीयऊर्जासम्मेलनस्य प्रदर्शनीस्य च द्विसहस्रषड्विंशतितमस्य वर्षस्य उद्घाटनसत्रे केन्द्रीयनवीननवीकरणीयऊर्जामन्त्री प्रह्लादजोशी, केन्द्रीयभारीउद्योगमन्त्री एच. डी. कुमारस्वामी, भूटानस्य ऊर्जाप्राकृतिकसंसाधनमन्त्री एच. ई. ल्योनपो जेम त्शेरिङ्गः, श्रीलङ्कायाः ऊर्जामन्त्री अनुराकरुणातिलकः, मध्यप्रदेशस्य अपरमुख्यसचिवः मनुश्रीवास्तवः इत्यादयः देशविदेशयोः ऊर्जाक्षेत्रस्य विशेषज्ञाः, नीतिनिर्मातारः, उद्योगजगतः प्रतिनिधयः च उपस्थिताः आसन्।

मुख्यमन्त्री डॉ. यादवः अवदत् यत् सप्तशतपञ्चाशत् मेगावाट् क्षमतायुक्तया रीवाअल्ट्रामेगासौरपरियोजनया देशे प्रथमवारं सौरऊर्जायाः शुल्कं कोयलाधारितविद्युतः अपि न्यूनं स्थापितम्। अस्यै परियोजनायै विश्वबैङ्कसमूहस्य अध्यक्षैः प्रदत्तः उत्कृष्टतापुरस्कारः प्राप्तः अस्ति तथा च अस्याः परियोजनायाः अध्ययनप्रकरणं हार्वर्डविश्वविद्यालये अध्याप्यते।

मन्त्री शुक्लः अवदत् यत् मध्यप्रदेशसर्वकारस्य नवीननवीकरणीयऊर्जाविभागः राज्ये नवीकरणीयऊर्जानीतिनिर्माणस्य, निवेशप्रोत्साहनस्य, परियोजनाविकासस्य, ऊर्जासंक्रमणसम्बद्धानां कार्यक्रमाणां समन्वयस्य च प्रमुखः विभागः अस्ति। विभागः प्रदेशं स्वच्छस्य, सुरक्षितस्य, सततस्य च ऊर्जाक्षेत्रस्य अग्रगण्यं राज्यं कर्तुं कार्यरतः अस्ति।

सः अवदत् यत् रीवाअल्ट्रामेगासोलरलिमिटेड्, मध्यप्रदेशऊर्जाविकासनिगमलिमिटेड् तथा सोलरएनर्जीकार्पोरेशनऑफइण्डिया इत्येतयोः संयुक्तोपक्रमः अस्ति। रूम्सल् राज्ये बृहत्प्रमाणेन सौरऊर्जायाः, तैरतेषु सौरऊर्जापरियोजनानां, संकरनवीकरणीयऊर्जायाः तथा च विद्युद्भाण्डारणपरियोजनानां विकासाय कार्यान्वयनाय च नोडल्-अभिकरणरूपेण कार्यं करोति। रूम्सल् द्वारा विकसिताः नवाचाराधारिताः परियोजनाः मध्यप्रदेशं देशे ऊर्जाभण्डारणस्य चतुर्विंशतिः होराः नवीकरणीयऊर्जाप्रदायस्य च क्षेत्रे अग्रगण्यराज्यरूपेण स्थापयन्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani