केन्द्रीयमन्त्री नायडू भोपालं प्राप्तवान्, मुख्यमन्त्रिणा डॉ. यादवेन सह कृत: साक्षात्कार:
भोपालम्, ०९ अगस्तमासः (हि.स.)। केन्द्रीयनागरिकविमाननमन्त्री किंजारापु राममोहन नायडूः रविवासरे मध्यप्रदेशस्य एकदिवसीयप्रवासाय भोपालं प्राप्तवान्। सः अत्र मुख्यमन्त्रिनिवासं गत्वा ‘समत्व-भवने’ मुख्यमन्त्रिणा डॉ. मोहन यादवेन सह साक्षात्कारं कृतवान्।
मुख्यमंत्री निवास पहुंचने पर केन्द्रीय मंत्री नायडू का स्वागत करते हुए मुख्यमंत्री डॉ. यादव


भोपालम्, ०९ अगस्तमासः (हि.स.)। केन्द्रीयनागरिकविमाननमन्त्री किंजारापु राममोहन नायडूः रविवासरे मध्यप्रदेशस्य एकदिवसीयप्रवासाय भोपालं प्राप्तवान्। सः अत्र मुख्यमन्त्रिनिवासं गत्वा ‘समत्व-भवने’ मुख्यमन्त्रिणा डॉ. मोहन यादवेन सह साक्षात्कारं कृतवान्।

अस्मिन् अवसरे मुख्यसचिवः अशोक-बर्णवालः, केन्द्रीयनागरिक-विमानन-मन्त्रालयस्य सचिवः समीर-कुमार-सिन्हा, केन्द्रीयनागरिकविमाननमन्त्रालयस्य योजनासदस्यः अनिल-गुप्तः तथा मध्यप्रदेशविमाननविभागस्य अपरमुख्य-सचिवः सञ्जय-शुक्लः अपि उपस्थिताः आसन्।

मुख्यमन्त्री डॉ. यादवः केन्द्रीयमन्त्री नायडोः मुख्यमन्त्रिनिवासे आगमने आत्मीयं स्वागतं कृत्वा प्रतीकचिह्नं प्रदाय तस्य अभिनन्दनं कृतवान्। मुख्यमन्त्री केन्द्रीयमन्त्रिणे नायडु इत्यस्मै भोपाल-तालस्य निर्माणस्य इतिहासस्य विषये सूचनां प्रदत्तवान्। सः अवदत् यत् अयं तालः प्राकृतिकशिलाः छित्त्वा निर्मितः अस्ति।

केन्द्रीयमन्त्री नायडू मध्यप्रदेशाय अद्य चतस्रः नूतनाः प्रत्यक्षविमानसेवाः प्रदातुं भोपालम् आगतवान् अस्ति। सः अत्र राजाभोज-विमानतले आयोजिते कार्यक्रमे मुख्यमन्त्रिणा डॉ. मोहन यादवेन सह प्रदेशस्य चतसृणां नूतनानां प्रत्यक्षविमान-सेवानां शुभारम्भं करिष्यति। एतासु भोपाल-रीवा, भोपाल-पाटना, रीवा-कोलकाता तथा जबलपुर-कोलकाता इति विमानमार्गाः अन्तर्भवन्ति। कार्यक्रमे सः भोपालात् रीवां प्रति गन्तुं प्रथमविमानस्य ध्वजप्रदर्शनं करिष्यति।

Hindusthan Samachar / अंशु गुप्ता