एकस्मिन् स्थले लक्षशः पादपानां रोपणं कृत्वा द्विवर्षपर्यन्तं संरक्षणेन वृक्षरूपेण विकसितानां पादपानां विश्वकीर्तिमानम्
इन्दौरम्, ०९ अगस्तमासः (हि.स.)। मध्यप्रदेशस्य इन्दौरनगरे पुनरपि पर्यावरणसंरक्षणस्य क्षेत्रे नूतनः इतिहासः रचितः। रविवासरे अत्र रेवती-रेञ्ज-क्षेत्रे रोपितानां पादपानां गणनायाः अनन्तरं ‘एशिया बुक ऑफ वर्ल्ड रिकॉर्ड’ संस्थया रेवती-रेञ्जे सम्प्रति १३ लक
इंदौर में पौधरोपण करते हुए मंत्री विजयवर्गीय


इन्दौरम्, ०९ अगस्तमासः (हि.स.)। मध्यप्रदेशस्य इन्दौरनगरे पुनरपि पर्यावरणसंरक्षणस्य क्षेत्रे नूतनः इतिहासः रचितः। रविवासरे अत्र रेवती-रेञ्ज-क्षेत्रे रोपितानां पादपानां गणनायाः अनन्तरं ‘एशिया बुक ऑफ वर्ल्ड रिकॉर्ड’ संस्थया रेवती-रेञ्जे सम्प्रति १३ लक्षं १० सहस्रं १२ वृक्षाः सन्ति इति घोषितम्। एकस्मिन् स्थले लक्षशः पादपानां रोपणं कृत्वा द्विवर्षपर्यन्तं तेषां संरक्षणं कृत्वा वृक्षरूपेण विकासः कृतः इति एतत् विश्वकीर्तिमानम् अस्ति।

२०२४ तमे वर्षे मन्त्री कैलाश-विजयवर्गीयस्य नेतृत्वे इन्दौरवासिभिः रेवती-रेञ्जे एकस्मिन् दिने १२ लक्षाधिकाः ४१ सहस्रं पादपान् रोपयित्वा विश्वकीर्तिमानं स्थापितम् आसीत्। पौधारोपणानन्तरं पौधानां संरक्षणाय परिचर्यायै च रेवती-रेञ्ज इत्यत्र नर्सरी अपि विकसिताऽभवत्, येन कस्यचित् पादपस्य नष्टे सति तस्य स्थाने तत्कालं नूतनं पादपं रोपयितुं शक्येत। २०२५ तमे वर्षे अपि इन्दौरवासिभिः रेवती-रेञ्ज इत्यत्र एकलक्षं पादपा: रोपिता:।

द्विवर्षपर्यन्तं पादपानां संरक्षणस्य सूक्ष्मपरीक्षणम्

अस्मिन् अवसरे संस्थाध्यक्षः अन्तिम-जैनः अवदत् यत् एकस्मिन् स्थले एकस्मिन् समये लक्षशः पादपानां रोपणं तथा द्विवर्षपर्यन्तं तेषां संरक्षणं कृत्वा वृक्षरूपेण विकासः स्वयमेव ऐतिहासिकः उपलब्धिः अस्ति। एतत् कार्यं मुख्यमन्त्रिणः डॉ. मोहन-यादवस्य, नगरीयप्रशासन-विकासमन्त्रिणः कैलाश-विजयवर्गीयस्य, नगरनिगमस्य इन्दौरवासिनां च सामूहिकप्रयासेन सम्भवम् अभवत्।

सः अवदत् यत् विश्वकीर्तिमानस्य कृते विशेषरूपेण सूक्ष्मतया परीक्षणं कृतम् यत् २०२४ तमे वर्षे रेवती-रेञ्जे रोपितेषु पौधेषु कति पादपा: सुरक्षिताः जीवन्तश्च सन्ति। गणनायाः सत्यापनस्य च प्रक्रियायाः अनन्तरं रेवती-रेञ्ज इत्यत्र १३ लक्षं १० सहस्रं १२ वृक्षाः सन्ति इति पुष्टिः कृता।

इन्दौरः देशाय हरितक्रान्तेः सन्देशं प्रदास्यति

अस्मिन् अवसरे मन्त्री कैलाश-विजयवर्गीयः अवदत् यत् अगस्तमासस्य ९ दिनाङ्कः भारतस्य स्वातन्त्र्यसङ्ग्रामे विशेषमहत्त्वपूर्णः अस्ति। अस्मिन्नेव दिने भारत-त्याग-आन्दोलनस्य प्रारम्भः अभवत्। सः अस्मिन् अवसरे सर्वेभ्यः क्रान्तिकारिभ्यः नमनं कृतवान्।

सः अवदत् यत् वृक्षाः साक्षात् शिवस्य सदृशाः सन्ति। ते विषरूपं कार्बन-डाइऑक्साइड् वायुम् अवशोषयन्ति तथा च अमृतरूपम् ऑक्सीजन-वायुम् प्रददति। अतः यदा वयं एकं वृक्षं रोपयामः तदा मन्ये एकस्य शिवमन्दिरस्य निर्माणं कुर्मः। सः अवदत् यत् इन्दौरवासिभिः रेवती-रेञ्ज इत्यत्र १२ लक्षाधिकाः ४१ सहस्रं पादपान् रोपित्वा लक्षशः शिवालयानां निर्माणस्य पुण्यकार्यं कृतम्। सः सर्वान् इन्दौरवासिनः अभिनन्दितवान्।

सः अवदत् यत् ‘एशिया बुक ऑफ वर्ल्ड रिकॉर्ड’ इत्यस्य दलं अगस्तमासस्य ७ दिनाङ्कात् रेवती-रेञ्जे वृक्षाणां गणनां कुर्वत् आसीत्। सः अवदत् यत् वयं दलम् उक्तवन्तः आस्मः— “यदि सङ्ख्या न्यूना भवति तर्हि अस्मान् सूचयन्तु, यदि अधिका भवति तर्हि प्रमाणपत्रं प्रददतु।” सः अवदत् यत् एतेषां पादपानां वृक्षरूपेण विकासे नगरनिगमस्य विशेषतः जनकार्यसमित्याः प्रभारी राजेन्द्र-राठौडस्य च महत्त्वपूर्णं योगदानम् अस्ति।

सः अवदत् यत् इन्दौरवासिभिः सामूहिकप्रयत्नेन नगरं स्वच्छं कृतम् अस्ति तथा अधुना तत् हरितं कर्तुं संकल्पः कृतः अस्ति। प्रधानमन्त्री नरेन्द्रमोदिना “एकं वृक्षं मातुः नाम्ना” इति संकल्पः कृतः तथा इन्दौरवासिभिः अस्य संकल्पस्य सिद्धिपर्यन्तं नयनस्य दृढनिश्चयः कृतः अस्ति। अस्मिन् वर्षे इन्दौर इत्यत्र २१ लक्षपादपानां रोपणस्य संकल्पः कृतः अस्ति। सः अवदत् यत् वृक्षारोपणस्य अभियानं प्रत्येकं रविवासरे निरन्तरं भविष्यति।

मन्त्री विजयवर्गीयः नागरिकेभ्यः स्वजन्मदिने एकं पादपं रोपयितुम् आह्वानं कुर्वन् अवदत् यत् रेवती-रेञ्ज इत्यत्र पादपमपि उपलब्धं भविष्यति तथा पौधारोपणाय गर्तमपि पूर्वमेव सज्जं भविष्यति। सः अवदत् यत् क्रान्तिकारिभिः क्रान्तेः ध्वजं गृहीत्वा देशः स्वतन्त्रः कृतः। अद्य अस्माभिः अपि संकल्पः करणीयः यत् समाजस्य शत्रुं प्रदूषणं समाप्तुं वृक्षान् रोपयित्वा इन्दौरे नूतनां क्रान्तिं जनयिष्यामः तथा च सम्पूर्णे देशे हरितक्रान्तेः सन्देशं प्रेषयिष्यामः।

पर्यावरणसंरक्षणं संस्कृतेः अभिन्नम् अङ्गम्

जलसंसाधनमन्त्री तुलसीराम-सिलावटः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदिनः वृक्षारोपणसंकल्पं मन्त्री कैलाश-विजयवर्गीयः रेवती-रेञ्ज इत्यत्र पूर्णं कर्तुं कार्यं कृतवान्। पर्यावरणसंरक्षणं अस्माकं संस्कृतेः अभिन्नम् अङ्गम् अस्ति। सः अवदत् यत् मातुः अहिल्यायाः नगरी इन्दौरं स्वच्छमपि अस्ति हरितमपि अस्ति।

हरितक्षेत्रं ९ प्रतिशततः १४ प्रतिशतपर्यन्तं वर्धयितुं संकल्पः

महापौरः पुष्यमित्र-भार्गवः अवदत् यत् इदं इन्दौरस्य सौभाग्यम् अस्ति यत् देशे स्वच्छनगररूपेण परिचितं नगरम् अधुना हरितनगररूपेण विकसितुं संकल्पः कृतः अस्ति। अस्य कृते नगरस्य हरितक्षेत्रं ९ प्रतिशततः १४ प्रतिशतपर्यन्तं वर्धयितुं लक्ष्यं निर्धारितम् अस्ति।

सः अवदत् यत् अस्मिन् दिशि प्रथमवर्षे एकलक्षं, द्वितीयवर्षे ५ लक्षाणि, तृतीयवर्षे ५१ लक्षाणि, चतुर्थवर्षे १३ लक्षाणि तथा पञ्चमवर्षे २१ लक्षं वृक्षाणां रोपणस्य संकल्पेन अभियानं अग्रे नीयते। भार्गवः अवदत् यत् ‘युवा’ इत्यस्य विलोमः ‘वायु’ अस्ति तथा वायोः सम्बन्धः हनुमता सह अस्ति। तस्य विश्वासः अस्ति यत् युवाः स्वशक्त्या ऊर्जया च वृक्षारोपण-अभियानं जनान्दोलनरूपेण परिणमयिष्यन्ति तथा विश्वाय पर्यावरणसंरक्षणस्य दिशि नूतनं मार्गं दर्शयिष्यन्ति।

कार्यक्रमे केन्द्रीयमहिला-बालविकास-राज्यमन्त्री सावित्री-ठाकुरः, विधायकाः मधु-वर्मा, महेन्द्र-हार्डिया, रमेश-मेंदोला इत्यादयः तथा विभिन्नसामाजिक-सङ्घटनानां, संस्थानां, विद्यालयानां महाविद्यालयानां च १२ सहस्राधिकाः नागरिकाः वृक्षारोपण-अभियाने सहभागं कृतवन्तः।

Hindusthan Samachar / Divya Ranjan