Enter your Email Address to subscribe to our newsletters


– मध्यप्रदेशाय चतस्रः नूतनाः प्रत्यक्षविमानसेवाः प्राप्ताः, केन्द्रीय-मन्त्रिणा मुख्यमन्त्रिणा च हरितध्वजं प्रदर्श्य शुभारम्भः कृतः
भोपालम्, ०९ अगस्तमासः (हि.स.)। केन्द्रीयनागरिकविमाननमन्त्री के. राममोहन-नायडू अवदत् यत् विगतेषु द्वादशवर्षेषु देशस्य नागरिकविमाननक्षेत्रे अभूतपूर्वः विस्तारः अभवत्। सः अवदत् यत् पूर्वं विमानयात्रा कतिपयजनानामेव सीमिता आसीत्, किन्तु ‘उड़ान’ योजनायाः ‘उड़े देश का आम नागरिक’ इति उद्देश्येन तां सामान्यजनानां समीपं नेतुं प्रयासः क्रियते।
केन्द्रीयमन्त्री नायडू मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहन-यादवः च रविवासरे राजधानीभोपालस्य राजाभोज-विमानतले प्रदेशस्य चतसृणां नूतनानां प्रत्यक्षविमान-सेवानां हरितध्वजं प्रदर्श्य शुभारम्भं कृतवन्तौ। ताभ्यां भोपाल-रीवा, भोपाल-पाटना, रीवा-कोलकाता तथा जबलपुर-कोलकाता इति विमानमार्गेषु प्रत्यक्ष-विमानसेवानां शुभारम्भः कृतः। अस्मिन् अवसरे सर्वकारेण विमानयात्रा-भाटकस्य अधिकतमसीमां निर्धारयितुं, नूतनविमान-स्थानकानां अनुमोदनं तथा भोपालतः अन्ताराष्ट्रिय-विमानसेवानां सञ्चालनस्य योजनायाः विषये अपि सूचना प्रदत्ता।
केन्द्रीयमन्त्री नायडू अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदिनः नेतृत्वे ‘उड़ान’ योजनायाः अन्तर्गतं देशे प्रायः ९० विमानस्थानकानि विकसितानि सन्ति। विमानानां सङ्ख्या यात्रिणां सङ्ख्या च प्रायः द्विगुणिता अभवताम्। लघुनगरेषु विमानस्थानकानां निर्माणानन्तरं तत्र पर्यटनस्य, व्यापारस्य, रोजगारस्य निवेशस्य च सम्भावनाः तीव्रगत्या वर्धिताः सन्ति। सः मध्यप्रदेशसर्वकारस्य विमानननीतेः अपि प्रशंसां कृतवान्। सः अवदत् यत् केन्द्रसर्वकारः विमाननक्षेत्रे एकं पदम् अग्रे गच्छति चेत् मध्यप्रदेशसर्वकारः मुख्यमन्त्रिणः डॉ. यादवस्य नेतृत्वे द्वे पदे अग्रे गच्छति। एषा एव ‘डबल इञ्जिन’ सर्वकारस्य शक्तिः अस्ति।
उपमुख्यमन्त्री राजेन्द्र-शुक्लः अवदत् यत् रीवा-भोपाल-विमानसेवायाः भाटकं २७०० रूप्यकेभ्यः आरप्स्यते, तस्य अधिकतमसीमा ३५०० रूप्यकाणि निर्धारिता अस्ति। रीवातः कोलकातां प्रति विमानयात्रायाः भाटकं ३७०० तः ५००० रूप्यकाणां मध्ये भविष्यति। विन्ध्यक्षेत्रस्य कृते एतां सेवां ऐतिहासिकं वर्णयन् सः अवदत् यत् मार्गस्य रेलमार्गस्य च जालकेन सह अधुना उत्तमविमानसम्पर्कः प्राप्तः सति क्षेत्रे व्यापारस्य, पर्यटनस्य निवेशस्य च नूतनाः अवसराः उद्घाटिताः भविष्यन्ति।
विमाननसचिवः समीर-कुमार-सिन्हा सूचनां दत्तवान् यत् प्रधानमन्त्रिणा प्रारब्धः परिवर्तितः ‘उड़ान’ कार्यक्रमः २०३६ तमं वर्षं यावत् प्रवर्तिष्यते। मुख्यमन्त्री डॉ. यादवः अवदत् यत् प्रदेशे रीवा, दतिया तथा सतना इत्येतेषां अनन्तरम् अधुना उज्जयिनी-शिवपुरीयोः नूतनविमान-स्थानकानि विकसितानि क्रियन्ते। केन्द्रसर्वकारेण प्रदेशस्य कृते पञ्च नूतनविमानस्थानकानां सैद्धान्तिक-अनुमोदनम् अपि प्रदत्तम् अस्ति।
कार्यक्रमस्य समये मुख्यमन्त्री अन्ताराष्ट्रियसम्पर्कस्य विषये चर्चां कुर्वन् अवदत् यत् इन्दौर-अबुधाबी-विमान-सेवानन्तरं आगामीषु द्विमासेषु भोपालतः शारजाह-नगरं प्रति प्रत्यक्षान्तर-राष्ट्रीयविमानसेवायाः शुभारम्भस्य सम्भावना अस्ति। तदतिरिक्तं गम्भीररोग-पीडितानां रोगिणां कृते प्रदेशे आयुष्मान्-कार्डस्य आधारेण निःशुल्क-वायुरुग्ण-वाहिकासेवायाः उपलब्धतायाः विषयः अपि पुनरुक्तः। अस्याः सेवायाः माध्यमेन आपत्काले रोगिणः शीघ्रं विमानमाध्यमेन सुरक्षितस्थानं प्रति नेतुं शक्यन्ते। सः अवदत् यत् उज्जयिन्याम्, इन्दौरे तथा ओङ्कारेश्वरे ‘पीएम श्री पर्यटन-हेलिकॉप्टर’ सेवाः अपि सञ्चाल्यन्ते।
Hindusthan Samachar / Divya Ranjan