Enter your Email Address to subscribe to our newsletters

प्रदेशस्य एककोटिदशलक्षाधिकानां बालकानां किशोराणां च कृमिसंक्रमणात् रक्षणाय एल्बेन्डाजोलस्य मात्रा प्रदास्यते
रायपुरम्, ०९ अगस्तमासः। बालकानां स्वास्थ्यस्य अध्ययनस्य उज्ज्वलभविष्यस्य च मार्गे उदरस्थः कृमिसंक्रमणः एकः प्रमुखः किन्तु प्रायः उपेक्षितः समस्याविषयः अस्ति। एतत् संक्रमणं बहुधा बालकेषु कुपोषणस्य रक्ताल्पतायाः दुर्बलतायाः क्षुधामन्दतायाः पुनः पुनः रोगग्रस्ततायाः अध्ययनसमये एकाग्रतायाः न्यूनतायाश्च कारणं भवति। एताभिः समस्याभिः बालकान् सुरक्षितान् कर्तुं प्रदेशे अगस्तमासस्य दशमे दिनाङ्के राष्ट्रियः कृमिमुक्तिदिवसः आचरिष्यते। अस्मिन् अवसरे राज्यस्य सर्वेषु भागेषु एकवर्षात् एकोनविंशतिवर्षपर्यन्तं वयःसमूहे स्थितेभ्यः बालकेभ्यः किशोरेभ्यः किशोरीभ्यश्च एल्बेन्डाजोलस्य मात्रा प्रदास्यते।
स्वास्थ्यविभागेन सञ्चालितस्य अस्य राज्यव्यापिनः अभियानस्य उद्देश्यं केवलं कृमिसंक्रमणस्य उपचारः न, अपितु बालकेभ्यः उत्तमपोषणस्य उत्तमस्वास्थ्यस्य उत्तमशिक्षायाश्च अवसरान् प्रदातुम् अपि अस्ति। अभियानस्य अन्तर्गतं प्रदेशस्य प्रायः एककोटिदशलक्षं बालकान् किशोरान् किशोरीश्च सम्प्राप्य तेभ्यः कृमिमुक्त्यर्थम् एल्बेन्डाजोलस्य मात्रा प्रदातुं लक्ष्यं निर्धारितम् अस्ति। अस्य कृते शासकीयेषु निजीविद्यालयेषु आङ्गनबाडीकेंद्रेषु अन्येषु च संस्थानेषु व्यापकस्तरेण औषधसेवनस्य व्यवस्था कृता अस्ति।
कृमिसंक्रमणं मुख्यतः अस्वच्छवातावरणस्य कारणेन प्रसर्पति। एतत् संक्रमणं सामान्यतः खुले स्थाने मलत्यागेन न्यूनस्वच्छतया च मृदायाः संक्रमितत्वात्, संक्रमितमृदायाः सम्पर्कानन्तरं हस्तौ न प्रक्षाल्य भोजनसेवनात्, दूषितजलस्य पानात्, दूषितभोजनस्य सेवनात्, मानवमलेन दूषितायां मृदायां नंगेपादैः गमनात् तथा मलत्यागानन्तरं हस्तप्रक्षालनं न करणात् च प्रसर्पति। संक्रमणस्य सति बालकानां शरीरे भोजनात् पर्याप्ताः पोषकतत्त्वाः न प्राप्यन्ते, येन तेषां शारीरिकः मानसिकश्च विकासः प्रभावितः भवितुम् अर्हति। अत एव विश्वस्वास्थ्यसङ्गठनं विभिन्नानि स्वास्थ्यसंस्थानानि च नियमितौषधसेवनं बालकानां स्वास्थ्यसंरक्षणस्य प्रभावी उपायं मन्यन्ते।
अभियानस्य अन्तर्गतं एकवर्षात् द्विवर्षपर्यन्तं वयःसमूहे स्थितेभ्यः बालकेभ्यः एल्बेन्डाजोलस्य अर्धगोलिका तथा द्विवर्षात् एकोनविंशतिवर्षपर्यन्तं वयःसमूहे स्थितेभ्यः बालकेभ्यः किशोरेभ्यश्च पूर्णगोलिका निर्धारितमानकानुसारं प्रदास्यते। औषधं प्रशिक्षितस्वास्थ्यकर्मिभिः शिक्षकैः आङ्गनबाडीकर्मिभिश्च निरीक्षणपूर्वकं प्रदास्यते, येन तस्य सुरक्षा प्रभावकारिता च सुनिश्चितं भवेत्।
क्षेत्रस्तरे कार्यरतैः स्वास्थ्यकर्मिभिः शिक्षकैः आङ्गनबाडीकर्मिभिश्च आवश्यकं प्रशिक्षणमपि प्रदत्तम् अस्ति।
स्वास्थ्यविभागेन अभिभावकेभ्यः आह्वानं कृतं यत् ते राष्ट्रियकृमिमुक्तिदिवसं केवलं स्वास्थ्यकार्यक्रमरूपेण न मन्यन्ताम्, अपितु स्वबालकानां उज्ज्वलभविष्येन सम्बद्धम् एकं महत्त्वपूर्णम् अवसरं मन्यन्ताम्। यदि कश्चित् बालकः अगस्तमासस्य दशमे दिनाङ्के कस्मिंश्चित् कारणे औषधं न सेवितुं शक्नोति, तर्हि तस्मै अगस्तमासस्य सप्तदशे दिनाङ्के मॉपअपदिवसे कृमिनाशकौषधं प्रदास्यते। अस्य औषधसेवनस्य माध्यमेन बालकेषु कुपोषणस्य रक्ताल्पतायाश्च समस्यां न्यूनीकर्तुं, रोगप्रतिरोधकक्षमतां वर्धयितुं तथा तेषां शैक्षणिकक्षमतायां सुधारं कर्तुं महत्त्वपूर्णं साहाय्यं भवति। अतः सर्वेभ्यः अभिभावकेभ्यः स्वबालकेभ्यः राष्ट्रियकृमिमुक्तिदिवसे मॉपअपदिवसे च कृमिनाशकौषधं अवश्यं प्रदातुम् आग्रहः कृतः अस्ति।
---
Hindusthan Samachar / Dheeraj Maithani