Enter your Email Address to subscribe to our newsletters

पुडुचेरी, 09 अगस्तमासः (हि.स.)।
केन्द्रीयगृहमन्त्री अमितशाहः रविवासरे पुडुचेरीपुलिसबलाय प्रतिष्ठितं ‘राष्ट्रपतिपुलिसकलर’ इति सम्मानं समर्पितवान्। अस्मिन् अवसरे सः अवदत् यत् केन्द्रसर्वकारः पुडुचेरीप्रदेशस्य विकासाय प्रतिबद्धः अस्ति। केन्द्रसर्वकारेण वर्षद्विसहस्रचतुर्दशतः द्विसहस्रषड्विंशतिपर्यन्तं पुडुचेरीप्रदेशस्य विकासाय त्रयोदशसहस्रसप्तशतद्विषष्टिकोटिरूप्यकाणि प्रदत्तानि, यदा तु वर्षं १९५०तः २०१४ पर्यन्तं पूर्वसर्वकारैः केवलं त्रिसहस्रपञ्चशतकोटिरूप्यकाणि विनियोजितानि आसन्। अधुना प्रदत्तं धनं तस्मात् प्रायः चतुर्गुणितम् अधिकम् अस्ति।
अमितशाहः पुडुचेरीप्रदेशस्य गोरिमेडुस्थिते पुलिसप्रशिक्षणमैदाने आयोजिते समारोहे पुडुचेरीपुलिसबलं प्रतिष्ठितेन ‘राष्ट्रपतिपुलिसकलर’ इति सम्मानेन सम्मानितवान्। उपराज्यपालः के. कैलाशनाथनः, मुख्यमन्त्री एन. रङ्गासामी इत्यादयः अन्ये गणमान्यजनाः च समारोहे उपस्थिताः आसन्।
कस्यचित् पुलिसबलस्य राष्ट्रपतिपुलिसकलर इति सम्मानस्य प्राप्तिः तस्य व्यावसायिकक्षमता, साहसम्, अनुशासनं जनसेवायां प्रतिबद्धता च प्रति प्राप्ता राष्ट्रियमान्यता भवति। पुलिससङ्गठनानां कृते अयं प्रमुखेषु संस्थागतसम्मानेषु अन्यतमः मन्यते।
अस्मिन् अवसरे अमितशाहः अवदत्, अद्य पुडुचेरीपुलिसबलं देशस्य तेषां चयनितानां पुलिसबलानां सूच्यां सम्मिलितम् अभवत्, येषां कृते अयं सर्वोच्चः सम्मानः प्रदत्तः अस्ति। पुडुचेरीपुलिसबलस्य राष्ट्रपतिपुलिसकलर इति सम्मानेन सम्मानितीकरणं बलस्य शौर्यस्य, परिश्रमस्य समर्पणस्य च प्रमाणम् अस्ति। एषः तेषां जीवनस्य सर्वाधिकगौरवपूर्णक्षणेषु अन्यतमः अस्ति। पुडुचेरी दक्षिणभारतस्य आध्यात्मिकस्य सांस्कृतिकस्य च चेतनायाः जीवन्तं प्रतीकम् अस्ति।
सः अवदत् यत् गतनववर्षेषु केन्द्रसर्वकारेण पुडुचेरीप्रदेशे नवत्रिंशत्सहस्रकोटिरूप्यकाणां औद्योगिकनिवेशस्य प्रोत्साहनं कृतम् अस्ति। लखपतीदीदी, जलजीवनमिशन, आयुष्मानभारत, शौचालयनिर्माणम्, निःशुल्कान्नयोजना, उज्ज्वलायोजना, प्रधानमन्त्रिगृहनिर्माणयोजना तथा प्रत्यक्षलाभहस्तान्तरणम् इत्यादिभिः योजनाभिः पुडुचेरीप्रदेशस्य नागरिकाः लाभान्विताः सन्ति।
शाहः अवदत् यत् मोदीसर्वकारेण आङ्ग्लैः निर्मितां दण्डसंहितां त्रिभिः नवीनैः आपराधिकविधिभिः प्रतिस्थापितम् अस्ति। एते नवीनाः विधयः केवलं दण्डप्रदानपराः न सन्ति, अपि तु तेषाम् उद्देश्यं प्रौद्योगिकीमाध्यमेन समयबद्धरीत्या नागरिकेभ्यः न्यायप्रदानम् अस्ति। एते नवीनाः आपराधिकविधयः प्रौद्योगिकी, समयसीमा, विश्वासः इति त्रिषु स्तम्भेषु आधारिताः सन्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani