कृतज्ञ राष्ट्रं 'भारत छोड़ो आंदोलनम् ' अथ च ‘काकोरी ट्रेन एक्शन’ इत्यस्य वर्षगंथौ अमरसेनानिभ्योऽददात् श्रद्धांजलिम्
नव दिल्ली, 09 अगस्तमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी, लोकसभाध्यक्षः ओम बिरला, गृहमन्त्री तथा सहकारितामन्त्री अमितशाहः समेताः अन्ये नेतारः रविवासरे ‘भारतं त्यजतु आन्दोलनस्य’ तथा ‘काकोरी रेलकार्यवाही’ इत्येतयोः वार्षिक्यवसरे राष्ट्रनायकानां
प्रतीकात्मक


नव दिल्ली, 09 अगस्तमासः (हि.स.)।

प्रधानमन्त्री नरेन्द्रमोदी, लोकसभाध्यक्षः ओम बिरला, गृहमन्त्री तथा सहकारितामन्त्री अमितशाहः समेताः अन्ये नेतारः रविवासरे ‘भारतं त्यजतु आन्दोलनस्य’ तथा ‘काकोरी रेलकार्यवाही’ इत्येतयोः वार्षिक्यवसरे राष्ट्रनायकानां अमरवीराणां च भावपूर्णां श्रद्धाञ्जलिं समर्पितवन्तः।

प्रधानमन्त्री नरेन्द्रमोदी एक्स इति सामाजिकमाध्यमे लिखितवान्, ऐतिहासिके ‘भारतं त्यजतु आन्दोलने’ भागं गृहीतवद्भ्यः सर्वेभ्यः जनाभ्यः स्मरणं समर्पयन् तेषां साहसं सर्वदा प्रत्येकस्य भारतीयस्य प्रेरणास्रोतः भविष्यति। महात्मागान्धिनः नेतृत्वेन प्रेरितं ‘भारतं त्यजतु’ इति आह्वानं अस्माकं स्वातन्त्र्यसङ्ग्रामे नूतनां ऊर्जां सञ्चारितवान् तथा च औपनिवेशिकशासनात् मुक्तेः अस्माकं जनानां अखण्डं सङ्कल्पं प्रदर्शितवान्।

लोकसभाध्यक्षः ओम बिरला उक्तवान् यत् महात्मागान्धिनः करिष्यामो वा मरिष्यामः इति आह्वानं तस्मिन् काले कोटिशः भारतीयानां कृते साहसस्य सङ्कल्पस्य च स्वरः अभवत्। अस्मिन् आन्दोलने असङ्ख्याकैः ज्ञाताज्ञातैः स्वातन्त्र्यसेनानीभिः कारागारयातनाः सोढाः, सङ्घर्षः कृतः, स्वप्राणानां बलिदानं च कृतम्। तेषां सङ्घर्षः केवलं राजनैतिकस्वातन्त्र्यार्थं नासीत्, अपि तु तादृशस्य भारतस्य निर्माणार्थमासीत्, यस्य आधारशिला सत्यं, अहिंसा, लोकतन्त्रम्, समानता, राष्ट्रभक्तिः इत्यादिभिः मूल्यैः भवेत्। स्वातन्त्र्यस्य अमृतकाले तेषां महानां सेनानीनां स्मरणम् अस्मान् प्रेरयति यत् राष्ट्रहितं सर्वोपरि स्थापयित्वा वयं लोकतान्त्रिकमूल्यानि संवैधानिकादर्शांश्च निरन्तरं सुदृढान् कुर्मः।

गृहमन्त्री तथा सहकारितामन्त्री अमितशाहः उक्तवान् यत् अनेन आन्दोलनेन देशवासिनः एकतां सम्पाद्य आङ्ग्लशासनात् मुक्तये ‘करिष्यामो वा मरिष्यामः’ इति सङ्कल्पः अदम्यं साहसं च प्राप्तवन्तः। अगस्तक्रान्तेः अयं दिवसः अस्मान् राष्ट्रहितं सर्वोपरि स्थापयित्वा स्वदेशीवस्तूनां स्वीकरणाय, आत्मनिर्भरभारतस्य निर्माणाय तथा ‘विकसितभारतस्य’ सङ्कल्पं साकारयितुं प्रेरयति। अपरत्र ‘काकोरी रेलकार्यवाही’ स्वातन्त्र्यसङ्ग्रामस्य सः अविस्मरणीयः अध्यायः अस्ति, येन आङ्ग्लशासनस्य अन्यायस्य अत्याचारस्य च विरुद्धं सशस्त्रक्रान्तये नूतनं बलं प्राप्तम्। चन्द्रशेखरआजादस्य रामप्रसादबिस्मिलस्य च नेतृत्वे वीरस्वातन्त्र्यसेनानिनः स्वकीयेन अदम्यसाहसेन समर्पणेन च अस्याः कार्यवाह्याः माध्यमेन ब्रिटिशशासनाय एतत् स्पष्टतया ज्ञापितवन्तः यत् अस्य देशस्य संसाधनेषु देशवासिनामेव अधिकारः अस्ति। देशः काकोरी रेलकार्यवाह्याः सर्वान् अमरक्रान्तिकारिणः सदैव ऋणी भविष्यति।

केन्द्रीयसड़कपरिवहनमार्गमन्त्री नितिनगडकरी उक्तवान् यत् १९४२ तमे वर्षे अद्यैव दिने महात्मागान्धिनः नेतृत्वे भारतवासिभिः आङ्ग्लानां विरुद्धं ‘भारतं त्यजतु आन्दोलनस्य’ प्रारम्भः कृतः।

रक्षामन्त्री राजनाथसिंहः उक्तवान् यत् अनेन आन्दोलनेन सम्पूर्णे देशे नूतनचेतनायाः सञ्चारः कृतः तथा च असङ्ख्याकानां भारतीयानां कृते स्वातन्त्र्यार्थं सङ्घटितभूत्वा सङ्घर्षं कर्तुं प्रेरणा प्रदत्ता। महात्मागान्धिनः, सर्वेषां वीरस्वातन्त्र्यसेनानीनां शहीदानां च त्यागेन, तपसा, सङ्घर्षेण च प्राप्तं स्वातन्त्र्यं अस्य देशस्य महान् राष्ट्रसम्पद् अस्ति। अद्य तामेव राष्ट्रसम्पदं अग्रे नयन् सशक्तस्य, समृद्धस्य, आत्मनिर्भरस्य, विकसितस्य च भारतस्य निर्माणार्थं निरन्तरं कार्यं करणमेव तेषां प्रति सच्चा श्रद्धाञ्जलिः अस्ति।

विदेशमन्त्री डॉ. एस्. जयशङ्करः उक्तवान् यत् भारतस्य स्वातन्त्र्यप्राप्तौ वीरसेनानीनां योगदानम् अमूल्या राष्ट्रसम्पद् अस्ति। केन्द्रीयवस्त्रमन्त्री गिरिराजसिंहः उक्तवान् यत् सर्वे राष्ट्रनिर्माणे स्वकीयां सक्रियां भूमिकां निर्वहन्तः तेषां स्वप्नानां सशक्तं समृद्धं च भारतं निर्मातुं सङ्कल्पं कुर्वन्तु। केन्द्रीयकृषिमन्त्री कृषककल्याणमन्त्री च शिवराजसिंहचौहानः उक्तवान् यत् अगस्तक्रान्तिः स्वातन्त्र्यसङ्ग्रामस्य सः ऐतिहासिकः अध्यायः अस्ति, येन देशवासिनां मनसि स्वातन्त्र्यस्य ज्योतिः सङ्घर्षस्य सङ्कल्पश्च प्रज्वलितः। स्वातन्त्र्यसेनानीनां त्यागं सङ्घर्षं बलिदानं च राष्ट्रं सदैव स्मरिष्यति।

---------------

Hindusthan Samachar / Dheeraj Maithani