देशस्य विद्युत्पादनस्य ५४ प्रतिशतं स्वच्छस्रोतसा
नवदिल्ली, ०९ अगस्तमासः (हि.स.)। देशेन जुलाईमासस्य ३१ दिनाङ्कपर्यन्तं जीवाश्मेन्धनाधारिततरं स्थापितविद्युत्-उत्पादनक्षमतायाः ३०० गीगावाट् इति सङ्ख्या अतिक्रान्ता अस्ति। एषा वर्ष २०३० पर्यन्तं प्राप्तव्यस्य ५०० गीगावाट् क्षमतायाः लक्ष्यस्य ६० प्रतिशत
Gujarat continuously strives to increase renewable energy capacity through implementation of new schemes and policies


नवदिल्ली, ०९ अगस्तमासः (हि.स.)। देशेन जुलाईमासस्य ३१ दिनाङ्कपर्यन्तं जीवाश्मेन्धनाधारिततरं स्थापितविद्युत्-उत्पादनक्षमतायाः ३०० गीगावाट् इति सङ्ख्या अतिक्रान्ता अस्ति। एषा वर्ष २०३० पर्यन्तं प्राप्तव्यस्य ५०० गीगावाट् क्षमतायाः लक्ष्यस्य ६० प्रतिशतादपि अधिका अस्ति। देशस्य समग्रविद्युत्-उत्पादनक्षमता, या सम्प्रति प्रायः ५५२ गीगावाट् अस्ति, तस्यां जीवाश्मेन्धने-तरस्रोतोभ्यः उत्पद्यमानविद्युत्क्षमतायाः भागः ५४ प्रतिशतादधिकः अभवत्।

नवीन-नवीकरणीय-ऊर्जामन्त्रालयस्य विवरणानुसारं जीवाश्मेन्धनेतरक्षमतायाः विवरणम् एवं वर्तते— सौरऊर्जा १६४.५९ गीगावाट्, पवनऊर्जा ५८.१४ गीगावाट्, जलविद्युत् (बृहद् तथा लघु) ५७.२४ गीगावाट्, जैवऊर्जा ११.७५ गीगावाट् तथा परमाणुऊर्जा ८.७८ गीगावाट्। एतेषां सर्वेषां योगः ३००.५० गीगावाट् अस्ति।

वर्तमानसर्वकारस्य उपलब्धिनां वर्णनं कुर्वन् मन्त्रालयः अवदत् यत् नवीक-रणीय-ऊर्जाक्षमतायां प्राप्ता तीव्रा प्रगतिः देशे नवीकरणीय-ऊर्जायाः उत्पा-दनस्य वृद्धौ अपि प्रतिबिम्बिता अस्ति। नवीकरणीय-ऊर्जायाः उत्पादनं २०१४-१५ तमे वर्षे १९०.९६ अरब-यूनिट् इत्यस्मात् वर्धित्वा २०२५-२६ तमे वर्षे ४७७.७९ अरब-यूनिट् अभवत्।

Hindusthan Samachar / अंशु गुप्ता