Enter your Email Address to subscribe to our newsletters


वंदेमातरम् इत्येतम् उद्घोषं कुर्वन् तिरंगयात्रायां पंकज चौधरिणा सह अग्रे आगतो मुख्यमंत्री योगी
लखनऊ, 09 अगस्तमासः (हि.स.)।हरगृहं तिरङ्गा अभियानस्य अन्तर्गतं भारतीयजनतापक्षस्य पक्षतः रविवासरे राजधानीलखनऊनगरे मुख्यमन्त्रिणः निवासस्थानात् लोकभवनपर्यन्तं तिरङ्गायात्रा आयोजिता। तिरङ्गायात्रायाः शुभारम्भः उत्तरप्रदेशस्य मुख्यमन्त्रिणा योगी आदित्यनाथेन भारतीयजनतापक्षस्य प्रदेशाध्यक्षस्य पङ्कजचौधरी इत्यस्य उपस्थितौ कृतः।
तदनन्तरं हस्तेषु तिरङ्गं धृत्वा भारतमातायाः जयघोषं कुर्वद्भिः कार्यकर्तृभिः सह मुख्यमन्त्री योगी आदित्यनाथः, प्रदेशाध्यक्षः पङ्कजचौधरी, उपमुख्यमन्त्रिणौ केशवप्रसादमौर्यः ब्रजेशपाठकश्च, संसदीयकार्यमन्त्री सुरेशखन्नः, परिवहनमन्त्री दयाशङ्करसिंहः, भारतीयजनतापक्षस्य मुख्यालयप्रभारी गोविन्दनारायणशुक्लः, प्रदेशमहामन्त्री दिलीपपटेलश्च यात्रायां सम्मिलिताः।
तिरङ्गायात्रायाः शुभारम्भावसरे मुख्यमन्त्री उक्तवान् यत् तिरङ्गः अस्माकं विरासतस्य तथा भारतस्य मानसम्मानगौरवस्य च प्रतीकः अस्ति। राष्ट्रगानस्य राष्ट्रगीतस्य च अपमानं कर्तॄन् संज्ञेयापराधस्य श्रेण्यां स्थापयित्वा दण्डयितुं निर्णयः कृतः अस्ति। भारतदेशे निवसन्तः जनाः भारतस्य प्रतीकानां भारतस्य महापुरुषाणां राष्ट्रगानस्य राष्ट्रगीतस्य च अपमानं कुर्युः इदानीं तत् न चलिष्यति।
मुख्यमन्त्री उक्तवान् यत् यत्कार्यं १९४७ तमे वर्षे एव भवितव्यम् आसीत् तत्कार्यं पूर्णं कर्तुं पञ्चसप्ततिवर्षाणि किमर्थम् आवश्यकानि अभवन्। कतिपयजनानां कृते सत्ता सर्वोपरि आसीत् किन्तु नरेन्द्रमोदिनः कृते राष्ट्रं प्रथमम् इति भावना अस्ति। भारतस्य प्रतीकानां युवानां महिलानां कृषकाणां च कृते नूतनाभिः योजनाभिः सह अग्रे गन्तुं समुचितं मञ्चं प्रदाय सर्वेषां पुरतः आदर्शः प्रस्तुतः अस्ति।
मुख्यमन्त्री आह्वानं कृतवान् यत् हरगृहं तिरङ्गायात्रायाः सङ्कल्पेन तिरङ्गस्य मन्त्रं मनसि निधाय स्वगृहे तिरङ्गं स्थापयन्तु। सः उक्तवान् यत् भारतीयजनतापक्षस्य पूर्ववर्तिनां शासनकाले गृहे तिरङ्गं स्थापयितुं संघर्षः कर्तव्यः आसीत् किन्तु भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोदिना चतुर्दशकोटिभ्यः भारतीयेभ्यः स्वगृहस्य उपरि तिरङ्गं स्थापयितुं स्वातन्त्र्यं प्रदत्तम्।
तिरङ्गायात्रायां नगरस्य विभिन्नविद्यालयानां छात्राः बहुसंख्यया सम्मिलिताः।
Hindusthan Samachar / Dheeraj Maithani