मुख्यमन्त्रिणा ‘हर घर तिरंगा’ यात्रायां सहभागिता कृता, प्रदेशवासिभ्यः गृहेषु त्रिरङ्गध्वजम् उत्तोलयितुम् आह्वानम्
देहरादूनम्, ०९ अगस्तमासः (हि.स.)। मुख्यमन्त्री पुष्करसिंहधामी रविवासरे राजधानीस्थे गान्धी-उद्याने आयोजिते ‘हर घर तिरंगा यात्रा’ कार्यक्रमे सहभागितां कृतवान् तथा प्रदेशवासिभ्यः स्वातन्त्र्य-दिवसस्य अवसरे स्वस्वगृहेषु त्रिरङ्गध्वजम् उत्तोलयितुं आह्वा
मुख्यमन्त्रिणा ‘हर घर तिरंगा’ यात्रायां सहभागिता कृता, प्रदेशवासिभ्यः गृहेषु त्रिरङ्गध्वजम् उत्तोलयितुम् आह्वानम्


देहरादूनम्, ०९ अगस्तमासः (हि.स.)। मुख्यमन्त्री पुष्करसिंहधामी रविवासरे राजधानीस्थे गान्धी-उद्याने आयोजिते ‘हर घर तिरंगा यात्रा’ कार्यक्रमे सहभागितां कृतवान् तथा प्रदेशवासिभ्यः स्वातन्त्र्य-दिवसस्य अवसरे स्वस्वगृहेषु त्रिरङ्गध्वजम् उत्तोलयितुं आह्वानं कृतवान्।

मुख्यमन्त्री धामी गान्धी-उद्यानात् घण्टाघरपर्यन्तं सहस्रशः जनैः सह त्रिरङ्गयात्रायां सम्मिलितवान्। तत्पूर्वं सः घण्टाघरे स्थितयोः उत्तराखण्ड-आन्दोलनस्य महानायकस्य स्वर्गीयस्य इन्द्रमणि-बडोनी-महोदयस्य भारतरत्नस्य डॉ. भीमराव-अम्बेडकरस्य च प्रतिमयोः पुष्पाणि समर्प्य श्रद्धाञ्जलिं अर्पितवान्।

सः अवदत् यत् त्रिरङ्गयात्रा राष्ट्रगौरवस्य उत्सवः अस्ति तथा त्रिरङ्गः कोटिशः भारतीयानां स्वाभिमानस्य प्रतीकत्वेन अस्ति। स्वातन्त्र्यसङ्ग्रामसेनानिभिः वीरसैनिकैश्च त्रिरङ्गस्य आन-बान-शानस्य रक्षणं कृतम् अस्ति। भारतस्य एकतायाः, अखण्डतायाः, सार्वभौमसत्तायाश्च रक्षणाय सर्वैः सदैव प्रतिबद्धैः भवितव्यम्। राष्ट्रभक्तेः भावना देवभूमेः कणे-कणे वर्तते।

सः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदिनः नेतृत्वे भारतं महासक्तिरूपेण अग्रे वर्धते। ‘मेक इन इण्डिया’, डिजिटलक्रान्त्या स्वदेशीयप्रौद्योगिक्या च देशः आत्मनिर्भरतायाः दिशि अग्रे गच्छति। भारतं सम्प्रति विविधेषु क्षेत्रेषु विश्वाय नूतनां दिशां प्रदर्शयति।

सः अवदत् यत् प्रधानमन्त्रिणः नेतृत्वे भारतीयसेनायाः मनोबलं सुदृढम् अभवत्। ‘सर्जिकल स्ट्राइक’ तथा ‘ऑपरेशन सिंदूर’ इत्येताभ्यां भारतं विश्वाय स्वशक्तेः परिचयं दत्तवान्। भारतः रक्षाक्षेत्रे निर्यातकरूपेण अपि अग्रे वर्धते। उत्तराखण्डः देवभूमिः एव न, अपितु वीरभूमिरपि अस्ति तथा प्रदेशस्य भूम्या देशाय असङ्ख्याः वीरसैनिकाः प्रदत्ताः।

मुख्यमन्त्री अवदत् यत् राज्यसर्वकारः वीरसैनिकानां, भूतपूर्वसैनिकानां, हुतात्म-परिवाराणां च कल्याणाय निरन्तरं कार्यं कुर्वती अस्ति। प्रधानमन्त्रिणः नेतृत्वे देशः विकसितभारत-२०४७ इति सङ्कल्पेन सह अग्रे वर्धते। राज्ये शिक्षा, स्वास्थ्य, मार्गाः, विद्युत्, जलं, वायुसम्पर्कव्यवस्था च सुदृढीक्रियते। त्रिंशदधिकेषु क्षेत्रेषु विशिष्टनीतीनां माध्यमेन विकासस्य मार्गचित्रं सज्जीकृतम् अस्ति।

सः अवदत् यत् द्विइञ्जिन-सर्वकारस्य प्रयासैः उत्तराखण्डः विकासस्य नूतनानि शिखराणि स्पृशति। राज्यस्य सकल-राज्यघरेलूत्पादे गतवर्षे ७.२३ प्रतिशतं वृद्धिः अभवत्, प्रतिव्यक्त्यायेषु च ४१ प्रतिशतं वृद्धिः अभवत्। प्रदेशे विंशतिसहस्राधिका: नूतना: उद्योगा: स्थापिता: सन्ति तथा स्टार्टअप-संस्थायाः संख्या १,७५० अधिका अभवत्।

सः अवदत् यत् राज्ये प्रतिप्रवासे ४४ प्रतिशतपर्यन्तं वृद्धिः अभवत्। सततविकासलक्ष्याणां पूर्तौ उत्तराखण्डेन देशे प्रथमं स्थानं प्राप्तम् अस्ति। देवभूमेः मूलस्वरूपेण सह कस्यापि प्रकारेण क्रीडां कर्तुं न अनुमन्यते। राज्ये कठोरः धर्मान्तरण-निरोधकः न्याय:, कठोरः युद्धनिरोधकः न्यायश्च प्रवर्तितः अस्ति तथा देशे सर्वप्रथमं समाननागरिकसंहिता अपि प्रवर्तिता। मदरसा-मण्डलं समाप्य उत्तराखण्डराज्य-अल्पसंख्यक-शिक्षा-प्राधिकरणं निर्मितम् अस्ति। बालकानां भविष्येन सह क्रीडां कुर्वतां २५० अधिकानाम् अवैध-मदरसानां विरुद्धं कार्यवाहीं कृत्वा तानि निरोधितानीति मुख्यमन्त्रिणा उक्तम्।

मुख्यमन्त्री अवदत् यत् प्रदेशे १३ सहस्राधिकानि एकरपरिमितानि सर्वकारीयभूमेः क्षेत्राणि अतिक्रमणात् मुक्तानि कृतानि सन्ति तथा भ्रष्टाचारस्य विरुद्धं कठोरकार्यवाही कृता अस्ति। कठोरनकलविरोधिन्यायस्य प्रवर्तना-नन्तरं गतपञ्चवर्षेषु ३४ सहस्राधिकेभ्यः युवभ्यः सर्वकारीयाः नियुक्तयः प्राप्ताः। युवानः ‘नौकरी-ग्राही’ न भूत्वा ‘नौकरी-दाता’ भवन्तु इति उद्देशेन मुख्यमन्त्री-स्वरोजगारयोजना, होम-स्टे, पर्यटननीतिः इत्यादीनां विविधयोजनानां माध्यमेन स्वरोजगारस्य उद्यमितायाश्च प्रोत्साहनं दीयते।

कार्यक्रमे राज्यसभासांसदौ महेन्द्रभट्टः नरेशबंसलश्च, मन्त्रिमण्डलस्य सदस्यौ गणेशजोशी सौरभबहुगुणश्च, विधायकाः खजानदासः उमेशशर्मा-काऊ विनोद-चमोली सविताकपूरश्च, महापौरः सौरभ-थपलियालः, महानगराध्यक्षः सिद्धार्थ-अग्रवालः, महामन्त्री कुन्दनपरिहारः, दीप्तिरावत् इत्यादयः बहुसंख्याकाः जनाः उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan