औरैयायां काकोरी-काण्डस्य शताब्दी-वर्षकार्यक्रमे स्मृतः महानायकः मुकुन्दीलालगुप्तः
औरैया, ०९ अगस्तमासः (हि.स.)। उत्तरप्रदेशस्य औरैया-जनपदे काकोरी-काण्डस्य शताब्दी-वर्षस्य पूर्णतायाः उपलक्ष्ये रविवासरे समाजसेवी-सङ्गठनेन ‘एक-विचित्र-पहल-सेवा-समितिः’ इत्यनेन शहीद-उद्याने कार्यक्रमः आयोजितः। समितेः पदाधिकारिभिः सदस्यैश्च काकोरी-काण्ड
फोटो। काकोरी कांड के महानायक मुकुंदी लाल गुप्ता को विचित्र पहल ने किया नमन


औरैया, ०९ अगस्तमासः (हि.स.)। उत्तरप्रदेशस्य औरैया-जनपदे काकोरी-काण्डस्य शताब्दी-वर्षस्य पूर्णतायाः उपलक्ष्ये रविवासरे समाजसेवी-सङ्गठनेन ‘एक-विचित्र-पहल-सेवा-समितिः’ इत्यनेन शहीद-उद्याने कार्यक्रमः आयोजितः। समितेः पदाधिकारिभिः सदस्यैश्च काकोरी-काण्डस्य महा-नायकस्य क्रान्तिकारिणः भारतवीरस्य मुकुन्दीलालगुप्तस्य स्मारकस्य स्वच्छता कृता तथा तस्य प्रतिमायां माल्यार्पणं कृतम्। अस्मिन् अवसरे “भारतवीरः मुकुन्दीलालगुप्तः अमरः भवतु”, “भारत-माता की जय”, “वन्दे मातरम्” इति जयघोषैः वातावरणं प्रतिध्वनितम् अभवत्।

तदनन्तरं ‘स्मरणीयः काकोरी-काण्डः’ इति विषये गोष्ठी आयोजिता। संस्थायाः अध्यक्षः राजीव-पोरवालः अवदत् यत् १९२५ तमस्य वर्षस्य अगस्तमासस्य नवम्यां दिनाङ्के महान् क्रान्तिकारिभिः आङ्ग्लशासनस्य राजकीयकोषः लुण्ठितः, येन स्वातन्त्र्य-सङ्ग्रामाय नूतना दिशा प्राप्ता। एतेषां वीरक्रान्तिकारिणां त्यागेन बलिदानेन च १९४७ तमे वर्षे देशः स्वातन्त्र्यं प्राप्तवान्।

समितेः संस्थापकः आनन्दनाथगुप्तः अधिवक्ता काकोरी-काण्डस्य इतिहासे प्रकाशं क्षिपन् अवदत् यत् १९२५ तमस्य वर्षस्य अगस्तमासस्य नवम्यां दिनाङ्के काकोरी-समीपे रेलयानेन नीयमानं ब्रिटिशशासनस्य राजकीयकोषं क्रान्ति-कारिभिः लुण्ठितम्। अस्मिन् अभियाने राजेन्द्रलाहिडी, रोशनसिंहः, सचिन्द्रबक्षी, अशफाकउल्लाखानः, मुकुन्दीलालगुप्तः, मन्मथनाथगुप्तः, मुरारीशर्मा, बनवारी-लालः, चन्द्रशेखरआजादः इत्यादयः अन्ये च क्रान्तिकारिणः सम्मिलिताः आसन्। मुकुन्दीलालगुप्तेन रेलयाने स्थापितानां कोषपेटिकानां तालक-भञ्जने महत्त्वपूर्णा भूमिका निर्वुढा। तस्य साहसेन प्रभावितः चन्द्रशेखरआजादः तस्मै ‘भारतवीर’ इति उपाधिं प्रदत्तवान्।

काकोरी-काण्डस्य अनन्तरं ब्रिटिश-शासनेन क्रान्तिकारिणां ग्रहणाय व्यापकः अभियानः सञ्चालितः। रामप्रसादबिस्मिलः, अशफाकउल्लाखानः, ठाकुररोशनसिंहश्च मृत्युदण्डेन दण्डिताः। वक्तारः अवदन् यत् स्वातन्त्र्यसेनानीनां त्यागः, बलिदानं संघर्षश्च कदापि विस्मर्तुं न शक्यते।

Hindusthan Samachar / Divya Ranjan