Enter your Email Address to subscribe to our newsletters

औरैया, 09 अगस्तमासः (हि. स.)।
उत्तरप्रदेशस्य औरैयाजनपदे पर्यावरणसंरक्षणस्य धार्मिकस्थलानां च हरितीकरणस्य उद्देशेन समाजसेवीसंघटनेन एक विचित्र पहल सेवा समितिः रजि. औरैया इत्यस्य पक्षतः रविवासरे जीवनधारा वृक्षारोपणाभियानं सञ्चालितम्। अस्य अभियानस्य अन्तर्गतं नगरात् प्रायः पञ्चकिलोमीटरदूरे दक्षिणदिशायां बीहड़प्रदेशे स्थितस्य महामायामङ्गलाकालीमन्दिरस्य परिसरे बृहत्प्रमाणेन वृक्षारोपणं कृतम्। वृक्षाणां पालनस्य सुरक्षायाश्च दायित्वं मन्दिरस्य सेवकेभ्यः समर्पितम्।
समित्याः अध्यक्षस्य राजीवपोरवालस्य रानू इत्यस्य नेतृत्वे प्रातः सप्तवादने आयोजिते अभियाने चान्दनी, हरसिङ्गारः, कदम्बः, जपापुष्पम्, पिप्पलः, पकडिया, वटवृक्षः, अशोकः, बिल्वपत्रम्, चितवनः, बोतलपाम्, आम्रातकम् तथा निम्बूकम् इत्यादीनां विविधप्रजातीनां वृक्षाः रोपिताः। समितिपदाधिकारिभिः वृक्षाणां नियमितपालनसंरक्षणयोः अपि विशेषं बलं दत्तम्।
वृक्षारोपणस्य अनन्तरं पर्यावरणसंरक्षणविषये गोष्ठी आयोजिता। समितेः संस्थापकः आनन्दनाथगुप्तः अधिवक्ता अवदत् यत् वृक्षाणां पालनपोषणं लघुबालकानामिव कर्तव्यम्। वृक्षाः वनस्पतयश्च मानवानां जीवनस्य पशुपक्षिणां च कृते अत्यन्तं महत्त्वपूर्णाः सन्ति। एतेभ्यः प्राणवायुः, औषधयः, भोजनं तथा जीवजन्तूनां कृते आश्रयः प्राप्यते। वृक्षवनस्पतिविहीनस्य मानवजीवनस्य कल्पना एव न सम्भवति। पर्यावरणस्य सन्तुलनं संरक्षितुं प्रत्येकस्य जनस्य अधिकाधिकवृक्षारोपणेन सह तेषां पालनसंरक्षणमपि कर्तव्यम्।
सः अवदत् यत् समित्या निर्धारितस्य लक्ष्यस्य तुलनायाम् अद्यावधि द्विसहस्रनवशतपञ्चचत्वारिंशत् वृक्षाणां वृक्षारोपणं वितरणं च कृतम् अस्ति। लक्ष्यस्य पूर्तिपर्यन्तम् अभियानं निरन्तरं चलिष्यति तथा जनानां रुच्यनुसारं वृक्षाणाम् वितरणमपि करिष्यते।
गोष्ठ्याः समापनावसरे उपस्थितैः जनैः पर्यावरणसंरक्षणाय अधिकाधिकवृक्षारोपणस्य तेषां पालनसंरक्षणस्य च संकल्पः कृतः।
अस्मिन् अवसरे तेजबहादुरवर्मा, शेखरगुप्तः, पर्यावरणप्रहरी मनीषपुरवारः हीरू इत्याख्यः, डॉ. आर्यप्रबुद्धः, अजयकपूरः, सञ्जयअग्रवालः, रामआसरेगुप्तः, सन्तोषकुशवाहः, विपुलकुमारः, हिमांशुदुबे, रामचन्द्रसोनी, कुलदीपबाजपेयी बाबा इत्याख्यः, ओमप्रकाशः, रमेशतिवारी, सतीशकुमारः इत्यादयः संस्थापकः आनन्दनाथगुप्तः अधिवक्ता तथा अन्ये पर्यावरणप्रेमिणः च उपस्थिताः आसन्।
---------------
Hindusthan Samachar / Dheeraj Maithani