अष्टमासानन्तरं शीतलाधामघट्टं प्राप्तवती गङ्गा, सहस्रशः भक्तैः कृतं गङ्गास्नानम्
मीरजापुरम्, ०९ अगस्तमासः (हि.स.)। श्रावणमासस्य द्वितीये रविवासरे चुनारक्षेत्रस्य अदलपुरास्थिते बडी-शीतलामातामन्दिरे श्रद्धालूनां महान् जनसम्मर्द: समागत:। सहस्रशः श्रद्धालवः गङ्गायां स्नानं कृत्वा मातुः शीतलायाः दर्शनं पूजनं च कृत्वा सुखसमृद्ध्योः क
अदलपुरा स्थित बड़ी शीतला माता मंदिर में भक्तों की भीड़।


मीरजापुरम्, ०९ अगस्तमासः (हि.स.)। श्रावणमासस्य द्वितीये रविवासरे चुनारक्षेत्रस्य अदलपुरास्थिते बडी-शीतलामातामन्दिरे श्रद्धालूनां महान् जनसम्मर्द: समागत:। सहस्रशः श्रद्धालवः गङ्गायां स्नानं कृत्वा मातुः शीतलायाः दर्शनं पूजनं च कृत्वा सुखसमृद्ध्योः कामनां कृतवन्तः। चर्चा आसीत् यत् प्रायः अष्टमासानन्तरं मातुः गङ्गायाः प्रवाहः शीतलाधामघट्टस्य दिशि प्राप्तः। तेन श्रद्धालूनां मध्ये विशेषः उत्साहः दृश्यते स्म।

प्रातःकालादेव श्रद्धालूनां आगमनस्य क्रमः प्रारब्धः। भक्ताः गङ्गायां स्नानं कृत्वा ततः पङ्क्तौ स्थित्वा मातुः शीतलायाः मन्दिरं प्राप्तवन्तः। मन्दिरे प्रवेशं कुर्वन्तः श्रद्धालवः मातुः जयघोषान् कर्तुम् आरब्धवन्तः। जयघोषैः सम्पूर्णं मन्दिरपरिसरं प्रतिध्वनितम् अभवत्। गर्भगृहे प्रविश्य श्रद्धालवः मातुः चरणयोः मस्तकं नत्वा आशीर्वादं प्राप्तवन्तः।

महिलाभक्ताः मन्दिरपरिसरे कढाई-भोगं समर्पितवन्तः। तत्रैव पूरिका, हलुआ, गुलगुला इत्यादीन् विविधपक्वान्नानि निर्माय मातुः भोगं समर्पितवन्तः। श्रद्धालवः नारिकेलं, चुनरी-वस्त्रं, लाचिदाना, लड्डुकं, पेडकं इत्यादीनि विविधप्रसादानि गृहीत्वा मन्दिरं प्राप्तवन्तः।

मन्दिरस्य पुरोहितैः श्रद्धालूनां विधिविधान-पूर्वकं दर्शनपूजनं कारितम्। श्रावणमासस्य द्वितीये रविवासरे विशालसंख्यायां श्रद्धालूनाम् आगमनेन मन्दिरपरिसरे शीतलाधामघट्टे च सम्पूर्णदिवसं धार्मिको-त्साहस्य वातावरणं वर्तितम्।

Hindusthan Samachar / Divya Ranjan