घुमन्तू-विकास-मण्डलं लिखिष्यति नूतनम् आख्यानम्, सांस्कृतिक-पुनर्जागरणस्य सामाजिक-परिवर्तनस्य च आदर्शरूपं भविष्यति योगिनः उत्तरप्रदेशः
– शासनस्य ऐतिहासिकं पदक्षेपम्, मण्डलस्य गठनात् घुमन्तू-समुदाये एकरूपता आगमिष्यति लखनऊ, ०९ अगस्तमासः (हि.स.)। कदाचित् राज्ञां सेनाभिः सह सञ्चरन्तः, लोककलया पारम्परिककौशलेन च ग्रामे ग्रामे जीवनस्य विविधतां प्रसारयन्तः घुमन्तू-समुदायाः इतिहासस्य दीर्
घुमंतू विकास बोर्ड के गठन पर मुख्यमंत्री योगी आदित्यनाथ का धन्यवाद देते और समाज को जागरूक करते घुमंतू जनजाति परिषद के प्रदेश संगठन मंत्री राजेश कुमार पांडेय (माइक पर बोलते)।


घुमंतू विकास बोर्ड के गठन के बाद प्रसन्न मुद्रा में घुमंतू समाज के लोग।


– शासनस्य ऐतिहासिकं पदक्षेपम्, मण्डलस्य गठनात् घुमन्तू-समुदाये एकरूपता आगमिष्यति

लखनऊ, ०९ अगस्तमासः (हि.स.)। कदाचित् राज्ञां सेनाभिः सह सञ्चरन्तः, लोककलया पारम्परिककौशलेन च ग्रामे ग्रामे जीवनस्य विविधतां प्रसारयन्तः घुमन्तू-समुदायाः इतिहासस्य दीर्घे काले शनैः शनैः समाजस्य हाशिये आगतवन्तः। अद्य स एव समुदायः उत्तरप्रदेशे नूतन-परिचयस्य देहलीम् अधिरूढः दृश्यते। योगिशासनेन उत्तरप्रदेश-घुमन्तू-विकास-मण्डलस्य गठनाय अनुमोदनं प्रदत्तम्। सामाजिकन्यायस्य सांस्कृतिक-पुनर्जागरणस्य च दिशि एतत् ऐतिहासिकं निर्णयम् इति मन्यते।

घुमन्तू-जनजाति-परिषदः प्रदेश-सङ्गठन-मन्त्री राजेशकुमारपाण्डेयः हिन्दुस्थान-समाचार-संस्थया सह विशेषवार्तालापे मुख्यमन्त्रिणः योगिनः आदित्यनाथस्य आभारं व्यक्तवान्। सः अवदत् यत् घुमन्तू-विकास-मण्डलं केवलम् प्रशासनिकं संस्थानं न, अपितु घुमन्तूनां विमुक्त-समुदायानां च परिचयं, प्रतिनिधित्वं तथा विभिन्नाभिः योजनाभिः सह सम्बद्धतां सुनिश्चितं कर्तुं माध्यमं भविष्यति। मण्डलेन शिक्षा, स्वास्थ्यं, आवासः, आजीविका, सामाजिकसुरक्षा, पुनर्वासः तथा जातीय-अभिलेखानां एकरूपता इत्यादिषु विषयेषु समन्वितरूपेण कार्यं करिष्यते। अनेन राशनपत्रम्, आवासम्, आयुष्मान्-कार्ड्, निवृत्तिवेतनम्, भूमिपट्टा तथा रोजगार-योजनाभ्यः लाभप्राप्तिः सुलभा भविष्यति। दीर्घकालात् भ्रममाणानां समुदायानां स्थायीपरिचयः सम्मानपूर्णजीवनस्य च अवसरः प्राप्तुं शक्यते।

सः अवदत् यत् भारतस्य विमुक्तानां, घुमन्तूनां अर्धघुमन्तूनां च समुदायानां अनुमानिता जनसंख्या प्रायः दशतः द्वादशकोटिपर्यन्तम् अस्ति। उत्तरप्रदेशे तु एतेषां समुदायानां जनसंख्या प्रायः द्विकोटिः अस्ति।

१८५७तः २०१४ पर्यन्तं घुमन्तू-समुदायस्य दीर्घा यात्रा

मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् घुमन्तूनां विमुक्त-समुदायस्य च इतिहासे अनेकाः महत्त्वपूर्णाः घटनाः अभवन्। १८५७ तमस्य प्रथमस्वातन्त्र्यसङ्ग्रामस्य अनन्तरम् आङ्ग्लशासकैः स्वातन्त्र्य-सङ्ग्रामे सक्रियेषु समुदायेषु दमनं तीव्रतरं कृतम्। १८७१ तमे वर्षे ‘क्रिमिनल ट्राइब एक्ट’ इत्यस्य अन्तर्गतं अनेकाः घुमन्तू-जातयः ‘क्रिमिनल ट्राइब’ इति घोषिताः, तान् प्रति सामाजिक-कलङ्कः आरोपितश्च।

स्वतन्त्रभारते डॉ. भीमराव-अम्बेडकरः अस्य अन्यायस्य समाप्तेः दिशि प्रयासं कृतवान्। समाजप्रतिनिधयः अवदन् यत् १९६७ तमे वर्षे अपि जातिप्रमाणपत्रस्य अप्राप्तिः इत्यादयः समस्याः विद्यमानाः आसन्। स्वातन्त्र्यस्य ७८ वर्षाणाम् अनन्तरम् अन्ततः दीर्घकालतः प्रचलिता एषा याचना पूर्णा अभवत्। मुख्यमन्त्री योगी अवदत् यत् २०१४ तमे वर्षे ‘सबका साथ, सबका विकास’ इति नीत्या सह अस्य समुदायस्य विभिन्नाभिः योजनाभिः सह संयोजनस्य प्रक्रिया गतिं प्राप्तवती।

लोकधरोहरतः उपेक्षापर्यन्तं यात्रा

नटाः, बञ्जाराः, सपेराः, कञ्जराः तथा अन्ये विमुक्त-घुमन्तू-समुदायाः शताब्दिभ्यः भारतीयलोकजीवनस्य जीवन्तः अङ्गाः आसन्। मेलापकानां, उत्सवानां यात्राणां च अवसरेषु तेषां कला, सङ्गीतं, नृत्यं तथा पारम्परिकं कौशलं समाजस्य सांस्कृतिक-धरोहररूपेण मन्यते स्म। किन्तु कालक्रमेण परिवर्तनं जातम्, जीवनशैली परिवर्तिता, एते समुदायाः स्थायीवासात्, शिक्षातः तथा प्रशासनिकपरिचयात् च दूरं गच्छन्तः अभवन्। बहूनां परिवाराणां पीढ्यः भूमिहीनाः, नियमितरोजगाररहिताः तथा सामाजिकसुरक्षाविहीनाः च जीवनं यापितवत्यः।

नीतिः समाजश्च मिलित्वा परिवर्तयिष्यतः स्थितिम्

अधुना स्थितौ परिवर्तनस्य सम्भावना दृश्यते। राज्यशासनस्य नूतनं मण्डलं शिक्षा, स्वास्थ्यं, आवासः, सामाजिकसुरक्षा, कौशलविकासः तथा रोजगारः इत्यादिषु विषयेषु विशेषकार्ययोजनां निर्मास्यति। अनेन तेषां परिवाराणां समीपं योजनानां प्रापणं वर्धिष्यते, ये अद्यावधि पर्याप्तरूपेण शासकीयव्यवस्थया सह सम्बद्धाः न अभवन्।

डेरेभ्यः डिजिटल-परिचयपर्यन्तम् आत्म-निर्भरतातः च

विशेषज्ञाः मन्यन्ते यत् यदि मण्डलस्य योजनाः प्रभावीरूपेण कार्यान्विताः भवन्ति, तर्हि आगामीषु वर्षेषु महत्त्वपूर्णः परिवर्तनः द्रष्टुं शक्यते। घुमन्तू-बालकानां विद्यालयेषु नियमितोपस्थितिः वर्धिष्यते। युवभ्यः कौशलप्रशिक्षणस्य स्वरोज़गारस्य च अवसराः प्राप्स्यन्ते। महिलानां स्वयं-सहायता-समूहाः आर्थिक-आत्म-निर्भरतायाः आधारः भवितुम् अर्हन्ति। परिवाराणां परिचयपत्रैः, धनागार-पंजिकाभि:, स्वास्थ्य-बीमया तथा सामाजिकसुरक्षा-योजनाभिः सह संयोजनं सुलभं भविष्यति। लोककलां पारम्परिक-कौशलं च पर्यटनस्य सांस्कृतिक-अर्थव्यवस्थायाः च सह सम्बद्धं कर्तुं शक्यते।

बृहद् सन्देशः

घुमन्तू-विकास-मण्डलस्य गठनं महत्त्वपूर्णं सन्देशं ददाति यत् विकासः तदैव पूर्णः भवति, यदा इतिहासस्य उपेक्षां वर्तमानस्य संवेदनया भविष्यस्य योजनया च सह सम्बद्धं क्रियते। एषा पहलः केवलमेकस्य समुदायस्य न, अपितु तस्य भारतस्य कथा अस्ति यः स्वस्य सांस्कृतिकमूलानां सम्मानं कुर्वन् प्रत्येकस्मै नागरिकाय समानावसरं दातुम् इच्छति। शताब्दीनां भ्रमणस्य अनन्तरं यदि घुमन्तू-समुदायः शिक्षायाः, सम्मानस्य आत्मनिर्भरतायाश्च मार्गे अग्रे गच्छति, तर्हि एतत् न केवलं उत्तरप्रदेशस्य, अपितु सम्पूर्णस्य देशस्य सामाजिकपरिवर्तनस्य ऐतिहासिकम् अध्यायं सिद्धं भवितुम् अर्हति।

Hindusthan Samachar / Divya Ranjan