Enter your Email Address to subscribe to our newsletters

वाराणसी, 09 अगस्तमासः (हि.स.)।
उत्तरप्रदेशस्य वाराणसीजनपदे भारतीयजनतापक्षस्य महानगराध्यक्षः प्रदीप अग्रहरिः रविवासरे तिरङ्गाभियानस्य विषये सूचनां दत्तवान्।
सः अवदत् यत् सोमवासरे दशम्यां अगस्तमासस्य तिथौ तिरङ्गाभियानस्य प्रारम्भः भविष्यति तथा द्वादशम्यां अगस्तमासस्य तिथौ पर्यन्तं प्रत्येकं मण्डलस्तरे वार्डस्तरे च भव्यतिरङ्गयात्राणाम् आयोजनं भविष्यति। द्वादशम्यां अगस्तमासस्य तिथितः चतुर्दशम्यां अगस्तमासस्य तिथिपर्यन्तं शहीदस्मारकेषु स्वतन्त्रतासङ्ग्रामसम्बद्धेषु स्थलेषु च स्वच्छताकार्यक्रमाः पुष्पाञ्जलिकार्यक्रमाश्च आयोजिताः भविष्यन्ति। त्रयोदशम्यां अगस्तमासस्य तिथितः पञ्चदशम्यां अगस्तमासस्य तिथिपर्यन्तं प्रत्येकस्मिन् गृहे प्रतिष्ठाने च तिरङ्गध्वजारोहणाय व्यापकं जनसम्पर्काभियानं सञ्चालितं भविष्यति।
सः पत्रकारान् अवदत् यत् तिरङ्गाभियानस्य अवधौ शहीदानां परिजनानां, वीरसैनिकानां राष्ट्रसेवायां समर्पितानां च आरक्षिकर्मचारिणां सम्मानः क्रियते। विद्यालयानां महाविद्यालयानां च विद्यार्थिनां, युवामोर्चायाः, महिलामोर्चायाः तथा सामाजिकसङ्घटनानां सक्रियसहभागिता सुनिश्चितं करिष्यते। भारतीयजनतापक्षस्य पदाधिकारिषु कार्यकर्तृषु च अभियानं प्रति अत्यधिकः उत्साहः वर्तते। विशेषरूपेण महिलाकार्यकर्तारः अभियाने वर्धितोत्साहेन सहभागं कुर्वन्ति।
सः अवदत् यत् श्वः प्रभृति वाराणसीमहानगरे राष्ट्रभक्तेः वातावरणं सशक्तरूपेण दृश्यते। सम्पूर्णस्य कार्यक्रमस्य संयोजकत्वेन महानगरोपाध्यक्षः मधुकरचित्रांशः नियुक्तः कृतः अस्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani