Enter your Email Address to subscribe to our newsletters

— पारम्परिकवेषभूषा, लोकसंस्कृतिः सांस्कृतिकप्रस्तुतयश्च मनांसि अमोहयन्
वाराणसी, ०९ अगस्तमासः (हि.स.)। विश्व-जनजातीय-दिवसस्य अवसरे रविवासरे वाराणस्यां स्थिते बनारस-रेल-इञ्जिन-कारखाना ‘आदिवासी-परिवार, बरेका’ इत्यस्य तत्त्वावधाने भव्यशोभायात्रायाः आयोजनं कृतम्। तदनन्तरं सांस्कृतिक-समारोहः अपि आयोजितः। समारोहस्य माध्यमेन जनजातीय-समुदायस्य समृद्धा सांस्कृतिकधरोहर:, लोकपरम्पराः सामाजिकैकतायाश्च प्रेरणा-दायकं स्वरूपं दृष्टम्।
परिसरे सायंकाले बरेका-सेण्ट-जॉन-विद्यालयस्य द्वितीयद्वारात् प्रारब्धा शोभा-यात्रा कुन्दन-तिराहामार्गेण सूर्यसरोवर-मार्गेण च गत्वा इण्टर-कॉलेज-चतुष।पथं प्राप्तवती, यत्र भगवत: गौतमबुद्धस्य, जननायकस्य बिरसा-मुण्डायाः भारत-रत्नस्य डॉ. भीमराव-आम्बेडकरस्य च प्रतिमासु श्रद्धापूर्वकं माल्यार्पणं कृतम्। तदनन्तरं शोभायात्रा पश्चिमी-संस्थानं जलालीपट्टीं प्राप्य सम्पन्ना अभवत्।
शोभायात्रायां बहुसंख्यकाः महिलाः पुरुषाश्च, युवजनाः बालकाश्च पारम्परिक-जनजातीय-वेषभूषासु सहभागं कृतवन्तः। विविधवर्णीयवेषभूषाभिः, पारम्परिकगीत-सङ्गीतेन सांस्कृतिकाभिव्यक्तिभिश्च सम्पूर्णं वातावरणम् उल्लासेन, ऊर्जया सांस्कृतिकगौरवेण च परिपूर्णम् अभवत्। मार्गे उपस्थितैः जनैः अपि अस्याः सांस्कृतिकयात्रायाः उत्साहपूर्वकं स्वागतं कृतम्।
पश्चिमी-संस्थाने जलालीपट्ट्यां च आयोजिते समारोह जनजातीयसमुदायस्य सांस्कृतिकप्रस्तुतीभिः सर्वेषां मनांसि अमोहितानि। वक्तारः जनजातीय-समुदायस्य समृद्धपरम्पराणां, प्रकृत्या सह तेषां गहनसम्बन्धस्य तथा सांस्कृतिक-धरोहरस्य संरक्षणस्य नूतनवंशं प्रति तस्याः संवहनस्य च आवश्यकतायाः विषये बलं दत्तवन्तः। तैः सामाजिक-समरसतायाः, सांस्कृतिक-विविधतायाः राष्ट्रियैकतायाश्च मूल्यानि सुदृढीकर्तुं सन्देशः अपि प्रदत्तः।
अस्मिन् अवसरे सहायककार्मिकाधिकारी पीयूष-मिञ्जः, बरेका-जनसम्पर्काधिकारी राजेश-कुमारः, आरपीएफ-निरीक्षकः प्रमोद-लकडा, बरेकायाः पूर्वसंयुक्तसचिवः अमर-सिंहः, कालू-माँझी तथा ‘आदिवासी-परिवार, बरेका’ इत्यस्य सदस्याः सुदर्शन-उराँवः, दिलीप-तिर्की, सुचित-कुजूरः, अजय-कुमार-तिर्की, संजीवन-तिर्की तथा अजय-तिग्गा उपस्थिताः आसन्। कार्यक्रमे बरेका-आदिवासी-महिलासमित्याः सपना-टोप्पो, तारा-मैरी-मिञ्जः, प्रेमा-लिली-टोप्पो, अनुपमा तथा बन्दना-बारला इत्येताभिः अपि पूर्णोत्साहेन सहभागिता कृता।
Hindusthan Samachar / Divya Ranjan