Enter your Email Address to subscribe to our newsletters

— ‘स्वातन्त्र्यस्य उत्सवः, स्वच्छतया सह’ इति आयोजने नमामि गङ्गे-संस्थायाः आह्वानम्
वाराणसी, ०९ अगस्तमासः (हि.स.)। उत्तरप्रदेशस्य धार्मिकनगरे वाराणस्यां देशस्य स्वातन्त्र्यस्य ८०तम्या: वर्षग्रन्थे: अवसरे देशभक्त्या सह स्वच्छतायाः सन्देशोऽपि प्रदास्यते। जलशक्ति-मन्त्रालयस्य राष्ट्रीयस्वच्छगङ्गामिशनस्य आह्वानेन अगस्तमासस्य ०९ दिनाङ्कात् १५ दिनाङ्कपर्यन्तं आयोजितस्य ‘हर घर तिरंगा, हर घाट तिरंगा’ अभियानस्य शुभारम्भः रविवासरे नमामि गङ्गे-संस्थया नमोघट्टात् कृतः।
राष्ट्रभक्तेः स्वच्छतायाश्च जागरणं कुर्वन् आह्वानं कृतं यत् ‘हर घर तिरंगा’ केवलम् अभियानं न भवेत्, अपितु प्रत्येकजनस्य संकल्पः भवेत्। ‘स्वातन्त्र्यस्य उत्सवः, स्वच्छतया सह’ इत्यस्य अभियानस्य उद्देश्यं देशभक्तेः, स्वच्छतायाः, नागरिकैकतायाश्च भावनानां समन्वयः अस्ति।
समाजे देशभक्तेः वातावरणस्य निर्माणस्य उद्देश्येन नमोघट्टस्य आध्यात्मिकं परिसरं ‘हर दिल तिरंगा, हर मन तिरंगा, हर मकसद तिरंगा, हर सपना तिरंगा’ इति जयघोषैः प्रतिध्वनितम् अभवत्। राष्ट्रध्वजं हस्ते गृहीत्वा सर्वैः स्वच्छतायाः संकल्पः कृतः। कार्यक्रमस्य संयोजकेन गङ्गासेवकेन राजेशशुक्लेन उक्तं यत् ‘हर घर तिरंगा, हर घाट तिरंगा’ अभियानस्य मुख्योद्देश्यं प्रत्येकं नागरिकं स्वगृहे राष्ट्रध्वजं उत्तोलितुं प्रेरयितुम् अस्ति।
एतदभियानं जनानां मनसि देशभक्तिभावनां जागरयित्वा राष्ट्रध्वजं प्रति सम्मानभावं वर्धयिष्यति। न केवलम्, भारतसर्वकारस्य एतदभियानं स्वच्छतायाः जलसंरक्षणस्य च विषये जनजागरूकतां प्रसारयित्वा प्रधानमन्त्रिण: नरेन्द्रमोदिनः स्वच्छभारत-अभियानमपि सुदृढं करिष्यति।
अस्मिन् अभियाने जलजीवन-अभि-यानस्य स्वच्छभारत-अभियानस्य च अन्तर्गतं नगरेषु ग्रामेषु च जलसंरक्षणम्, सामुदायिकस्वच्छता, स्वच्छताशपथः, अमृतसरोवरेषु ध्वजारोहणम् इत्यादयः कार्यक्रमाः आयोजयिष्यन्ते। आयोजने रिम्पी तनेजा, नेहाकपूर:, भावना लूथरा, कनिका सचदेवा, पूजा भल्ला, पूजा तनेजा इत्यादयः उत्साहेन सहभागितां कृतवन्तः।
Hindusthan Samachar / Divya Ranjan