Enter your Email Address to subscribe to our newsletters

देहरादूनम्, ०९ अगस्तमासः (हि.स.)। मुख्यमन्त्री पुष्करसिंहधामी रविवासरे स्वनिवासे उत्तराखण्ड-क्षत्रीय-कल्याण-समितेः, देहरादूनस्य, जालपुटस्य तथा ‘क्षत्रिय-जागरण’ स्मारिकायाश्च विमोचनं कृतवान्।
मुख्यमन्त्री धामी क्षत्रिय-कल्याणसमितेः सदस्येभ्यः शुभकामनाः प्रदाय अवदत् यत् एषा समितिः समाजे जागरूकतां जनयितुं आवश्यकताम् अनुभवद्भ्यः जनेभ्यः च साहाय्यं प्रदातुं महत्त्वपूर्णां भूमिकां निर्वहति। समित्या क्रियमाणानां सामाजिककार्याणां प्रशंसां कुर्वन् सः अवदत् यत् समाजस्य सर्वान् वर्गान् सह नीत्वा अग्रे गमनेन प्रदेशाय नूतना दिशा प्रदातुं शक्यते। युवभ्यः अपि सामाजिक-कार्येषु सक्रियतया सहभागितां कृत्वा उत्तराखण्डस्य विकासे स्वकीययोगदानं दातुम् आह्वानं कृतवान्।
मुख्यमन्त्री अवदत् यत् समाजस्य सर्वाङ्गीणे विकासे शिक्षायाः महत्त्वपूर्णा भूमिका अस्ति। समितेः पदाधिकारिभ्यः सदस्येभ्यश्च समाजे बालकानां शिक्षायां विशेषं ध्यानं दातुं, तेभ्यः उत्तमावसरान् उपलब्धान् कर्तुं, विविधक्षेत्रेषु अग्रे गन्तुं च तान् प्रोत्साहितुम् आह्वानं कृतवान्। सः अवदत् यत् बालकेषु संस्काराणां, अनुशासनस्य, सामाजिकदायित्वानां च भावनायाः विकासोऽपि आवश्यकः अस्ति, येन ते समाजस्य राष्ट्रस्य च निर्माणे स्वकीययोगदानं दातुं शक्नुयुः।
अस्मिन् अवसरे विधायकाः सुरेश-सिंहचौहानः, दिगम्बर सिंह नेगी, गोविन्दबिष्टः, सोहनसिंहनेगी, आशा-असवालः, धनपालरावतः, किशनभण्डारी, प्रतापसिंहबिष्टः, चन्दनसिंहभण्डारी इत्यादयः उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan