मुख्यमंत्री धामी आंदोलनकारिभिः आभाषिकवार्ता कृत्वा समापितम् आंदोलनम्
देहरादूनम्, 09 अगस्तमासः (हि.स.)। पिथौरागढ़जनपदस्य जाराजिबलीक्षेत्रस्य ग्रामीणाः गतपञ्चदिनानि यावत् धरनायाम् आसन्। मुख्यमन्त्री पुष्करसिंहधामी रविवासरे स्वयमेव विषयस्य संज्ञानं गृहीत्वा आभासीयमाध्यमेन वार्तां कृत्वा धरनाम् अवसानं कारितवान्। ग्राम
जूस पिलाकर धरना समाप्त करवाते अधिकारी।


देहरादूनम्, 09 अगस्तमासः (हि.स.)।

पिथौरागढ़जनपदस्य जाराजिबलीक्षेत्रस्य ग्रामीणाः गतपञ्चदिनानि यावत् धरनायाम् आसन्। मुख्यमन्त्री पुष्करसिंहधामी रविवासरे स्वयमेव विषयस्य संज्ञानं गृहीत्वा आभासीयमाध्यमेन वार्तां कृत्वा धरनाम् अवसानं कारितवान्। ग्रामीणाः जाराजिबलीविद्यालयस्य उच्चतरमाध्यमिकविद्यालयरूपेण उन्नयनस्य आग्रहं कृत्वा धरनायाम् आसन्।

मुख्यमन्त्री पुष्करसिंहधामी ग्रामीणान् आश्वासितवान् यत् तेषां मागसम्बन्धे शिक्षाविभागस्य अधिकारिभिः सह वार्तां कृत्वा आवश्यकाः कार्यवाह्यः तत्क्षणमेव सुनिश्चिताः करिष्यन्ते। मुख्यमन्त्रिणः आश्वासनस्य अनन्तरं आन्दोलनरतानां ग्रामीणानां मध्ये उत्साहस्य वातावरणं दृष्टम्।

मुख्यमन्त्रिणः आश्वासनस्य तथा जिलाप्रशासनेन प्रदत्तस्य विश्वासस्य अनन्तरं जाराजिबलीक्षेत्रस्य ग्रामीणैः स्वीयम् अनशनम् अवसानितम्। ग्रामीणैः मुख्यमन्त्रिणा स्वयमेव तेषां समस्यायाः संज्ञानं गृहीत्वा आभासीयमाध्यमेन संवादं कृत्वा आवश्यककार्यवाहीं प्रति आश्वासनं प्रदत्तं यत्, तदर्थं मुख्यमन्त्रिणः प्रति कृतज्ञता धन्यवादश्च प्रकटितौ।

ग्रामीणैः आशा प्रकटिता यत् मुख्यमन्त्रिणा स्वीकृतेन संज्ञानेन अनन्तरं तेषां मागस्य विषये शीघ्रमेव सकारात्मककार्यवाही भविष्यति।

अस्मिन् अवसरे अपरजिलाधिकारी योगेन्द्रसिंहः, आन्दोलनकारी जगदीशधामी, रूपसिंहधामी, रमेशसिंहधामी इत्यादयः अन्ये जनप्रतिनिधयः ग्रामीणाश्च उपस्थिताः आसन्।

Hindusthan Samachar / Dheeraj Maithani