आपत्कालस्य समये कारागारे गतानां ३२५ जनानां कृते प्रतिमासं १० सहस्ररूप्यकाणाम् अनुवृत्तिं दास्यति पश्चिमबङ्गालसर्वकारः
कोलकाता, ०९ अगस्तमासः (हि.स.)। पश्चिमबङ्गालस्य मुख्यमन्त्री शुभेन्दु-अधिकारी रविवासरे आपत्कालस्य समये लोकतन्त्रस्य रक्षणाय कारागारं गतानां ३२५ जनानां कृते प्रतिमासं १० सहस्ररूप्यकाणां पेन्शन इति प्रदातुं घोषणां कृतवान्। राज्यसर्वकारेण एते जनाः ‘पश्
शुभेंदु अधिकारी


कोलकाता, ०९ अगस्तमासः (हि.स.)। पश्चिमबङ्गालस्य मुख्यमन्त्री शुभेन्दु-अधिकारी रविवासरे आपत्कालस्य समये लोकतन्त्रस्य रक्षणाय कारागारं गतानां ३२५ जनानां कृते प्रतिमासं १० सहस्ररूप्यकाणां पेन्शन इति प्रदातुं घोषणां कृतवान्। राज्यसर्वकारेण एते जनाः ‘पश्चिमबङ्ग लोकतन्त्रसेनानी सम्मान’-पुरस्कारस्य कृते चिह्निताः सन्ति।

राज्यसचिवालये आयोजिते कार्यक्रमे मुख्यमन्त्रिणा स्वतन्त्रतासेनानिनः सम्मानिताः। अस्मिन् अवसरे सम्बोधयन् मुख्यमन्त्री अवदत् यत् आपत्कालस्य समये लोकतन्त्रस्य रक्षणाय संघर्षं कृतवन्तः जनाः बहूनि कष्टानि सोढवन्तः। सः अवदत् यत् नूतनः राज्यसर्वकारः एतेषां लोकतन्त्रसेनानीनाम् आदर्शानुसारं अग्रे गच्छति।

अधिकारी अवदत् यत् एतेभ्यः वीरसेनानीभ्यः अत्यधिकं कष्टं सोढव्यम् अभवत्। नूतनः राज्यसर्वकारः एतेषामेव वीरसेनानीनां आदर्शानाम् आधारेण निर्मितः अस्ति।

मुख्यमन्त्री अवदत् यत् ये जनाः देशस्य कृते त्यागं बलिदानं च कृतवन्तः, तेषाम् आदर्शान् मनसि निधाय सर्वकारः कार्यं करिष्यति। सः अवदत् यत् आपत्कालस्य समये विरोधप्रदर्शनेषु भागं गृहीत्वा कारागारं गतानां ३२५ जनानां परिचयः कृतः अस्ति।

केन्द्रस्य भाजपासर्वकारः जूनमासस्य २५ दिनाङ्कं ‘संविधानहत्या-दिवसः’ इति रूपेण आचरति। १९७५ तमे वर्षे अस्मिन्नेव दिने देशे आपत्कालः प्रवर्तितः आसीत्। भाजपाशासितेषु बहुषु राज्येषु आपत्कालस्य समये कारागारं गताः जनाः सम्मानिताः, तेभ्यश्च पेन्शन इति अपि प्रदत्तम् अस्ति। अस्मिन् वर्षे सम्पन्ने विधानसभानिर्वाचने भाजपापक्षः प्रथमवारं पश्चिमबङ्गाले सत्तां प्राप्तवान्।

रविवासरे मुख्यमन्त्री भारतत्याग-आन्दोलनस्य ८४ तम्याः वर्षगाठस्य अवसरे स्वतन्त्रतासेनानिभ्यः श्रद्धाञ्जलिं समर्पितवान्। महात्मागान्धिनः ‘करो वा मरो’ इति आह्वानं स्मरन् सः अवदत् यत् सहस्रशः भारतीयैः स्वतन्त्रभारतस्य स्वप्नाय स्वजीवनस्य सर्वोच्चं बलिदानं प्रदत्तम्।

अधिकारी अवदत् यत् अगस्तमासस्य ९ दिनाङ्कः तेषां साहसिकानां स्वतन्त्रता-सेनानीनां स्मरणस्य अवसरः अस्ति, येषाम् अदम्यसाहसस्य बलिदानस्य च आधारशिलायाम् अद्यतनः स्वतन्त्र-भारतदेशः स्थितः अस्ति।

Hindusthan Samachar / Divya Ranjan