युवकांग्रेसपक्षेण समाचरितः 66तमः स्थापनादिवसः, यश लखन घनघोरिया अकरोत् ध्वजारोहणम्
भोपालम्, 09 अगस्तमासः (हि.स.)।मध्यप्रदेशस्य राजधानी भोपालनगरे शिवाजीनगरस्थिते प्रदेशकांग्रेससमित्याः परिसरस्थले रविवासरे भारतीययुवाकांग्रेसस्य षट्षष्टितमः स्थापना दिवसः आचरितः। मध्यप्रदेशयुवाकांग्रेसस्य अध्यक्षस्य यश लखन घनघोरियस्य मुख्यातिथ्ये आयो
युवा कांग्रेस ने मनाया 66वां स्थापना दिवस


भोपालम्, 09 अगस्तमासः (हि.स.)।मध्यप्रदेशस्य राजधानी भोपालनगरे शिवाजीनगरस्थिते प्रदेशकांग्रेससमित्याः परिसरस्थले रविवासरे भारतीययुवाकांग्रेसस्य षट्षष्टितमः स्थापना दिवसः आचरितः। मध्यप्रदेशयुवाकांग्रेसस्य अध्यक्षस्य यश लखन घनघोरियस्य मुख्यातिथ्ये आयोजिते कार्यक्रमे तेन सङ्गठनस्य ध्वजारोहणं कृत्वा युवाकांग्रेसस्य संघर्षपूर्णं गौरवशालीं च इतिहासं प्रति सम्मानं प्रकटितम्।

ध्वजारोहणस्य अनन्तरं यश घनघोरियः युवाकांग्रेसस्य पदाधिकारिभ्यः कार्यकर्तृभ्यश्च सत्यनिष्ठायाः, ईमानदारितायाः, सामाजिकोत्थानस्य राष्ट्रनिर्माणस्य च कृते कार्यं कर्तुं शपथं कारितवान्। अस्मिन् अवसरे युवानां कृते पूर्णजीविकाताः लक्ष्यं साकारयितुं निरन्तरं प्रयत्नं कर्तुं संकल्पोऽपि कारितः। कार्यक्रमं सम्बोधयन् युवाकांग्रेसस्य अध्यक्षः यश लखन घनघोरियः उक्तवान् यत् भारतीययुवकांग्रेसदलस्य इतिहासः संघर्षेण त्यागेन राष्ट्रनिर्माणेन च सम्बद्धः अस्ति। परिवर्तमानकाले युवानां उत्तरदायित्वं अधिकं वर्धितम् अस्ति। तेन कार्यकर्तॄणाम् आह्वानं कृतं यत् ते समाजस्य अन्तिमपङ्क्तौ स्थितस्य जनस्य स्वरः भवन्तु तथा सामाजिककुरीतीनां विरुद्धं पूर्णनिष्ठया संघर्षं कुर्वन्तु।

कार्यक्रमे युवाकांग्रेसस्य प्रदेशमीडियाध्यक्षः अभिज्ञानशुक्लः, प्रदेशमहासचिवौ रोहितराजोरिया अपूर्वजैनश्च, प्रदेशसचिवाः लोकेन्द्रशर्मा मोहितसक्सेनः अनिकेतद्विवेदी धनजीगिरिः सलमानगौरी च, भोपालजनपदग्रामीणाध्यक्षः राहुलमण्डलोई, पूर्वग्रामीणाध्यक्षः गोपिलकोटवालः, एनएसयूआई प्रदेशोपाध्यक्षः रविपरमारः, भोपालएनएसयूआई जनपदाध्यक्षः अक्षयतोमरः सहिताः विधानसभाध्यक्षाः, जनपदपदाधिकारिणः शतशः कार्यकर्तारश्च उपस्थिताः आसन्।

---------------

Hindusthan Samachar / Dheeraj Maithani