Enter your Email Address to subscribe to our newsletters




– सायंकाले ‘शिवतत्त्व-श्रावण-कला-महोत्सवे’ प्रस्तुतिं दास्यति
उज्जयिनी (मध्यप्रदेशः), ०९ अगस्तमासः (हि.स.)। प्रसिद्धः पार्श्वगायकः बी. प्राक् अद्य प्रातः उज्जयिनीम् आगतवान्। सः भगवत: महाकालेश्वरस्य प्रातःकालीनायां भस्मारार्तिक्यां सम्मिलितः। बाबा-महाकालस्य दर्शन-पूजनानन्तरं तेन मन्दिरस्य जिलाप्रशासनस्य च व्यवस्थाः प्रशंसिताः। अस्मिन् अवसरे सः अवदत् यत् तस्य अतिशय-लोकप्रियस्य ‘महाकाल’ इति भक्तिगीतस्य सफलतायाः अनन्तरं शीघ्रमेव तस्य द्वितीयभागः ‘महाकाल-२’ दर्शकेभ्यः प्रस्तुतः भविष्यति।
सः विश्वप्रसिद्धस्य ज्योतिर्लिङ्गस्य श्रीमहाकालेश्वर-मन्दिरस्य नन्दी-मण्डपे उपविश्य बाबा-महाकालस्य दिव्यं स्वरूपं दृष्ट्वा आशीर्वादं प्राप्तवान्। आरार्तिक्या: सम्पन्नतायाः अनन्तरं श्रीमहाकालेश्वर-मन्दिर-प्रबन्धसमितेः उपप्रशासकेन एस्.एन. सोनी इत्यनेन तस्य स्वागतं सम्मानं च कृतम्। माध्यमप्रतिनिधिभिः सह वार्तालापे बी. प्राक् अवदत् यत् श्रावणस्य पवित्रे मासे बाबा-महाकालस्य दरबारे उपस्थितिः परमसौभाग्यस्य विषयः अस्ति।
स्वस्य प्रसिद्धस्य शिवभक्तिगीतस्य ‘महाकाल’ इत्यस्य उल्लेखं कुर्वन् बी. प्राक् अवदत् यत् बाबा-महाकालस्य कृपया अस्मै गीताय कोटिशः दर्शकाः लब्धा: तथा च अपरिमितं प्रेम प्राप्तम्। सः अवदत् यत् शिवं विषयीकृत्य तस्य नूतनं भक्तिगीतं शीघ्रमेव प्रदर्शितं भविष्यति तथा सः ‘महाकाल-२’ इत्यस्य सिद्धतायां प्रवृत्तः अस्ति। सः अवदत् यत् इन्दौरनगरे कार्यक्रमानन्तरं प्रथमवारं तस्मै बाबा-महाकालस्य नगरी उज्जयिन्यां प्रस्तुतिं दातुम् अवसरः लब्ध:, यस्य कृते सः मुख्यमन्त्रिणः डॉ. मोहनयादवस्य, राज्यशासनस्य तथा आरक्षकप्रशासनस्य विशेषं आभारं व्यक्तवान्।
श्रावणमासस्य उपलक्ष्ये अद्य सायं ७ वादनात् श्रीमहाकालेश्वर-मन्दिर-परिसरे स्थिते शक्तिपथे ‘शिवतत्त्व-श्रावण-कला-महोत्सवस्य’ भव्यः कार्यक्रमः आयोज्यते। मध्यप्रदेशशासनस्य संस्कृतिविभागस्य तत्त्वावधाने आयोजितायां अस्यां सांगीतिकसन्ध्यायां बी. प्राक् तथा तस्य मुम्बईनगरस्य दलं शिवभक्तिगीतानां विशेषां प्रस्तुतिं दास्यति। कार्यक्रमे तेन सह निवाडीजनपदस्य कलाकारः पवनतिवारी तथा तस्य दलमपि सांस्कृतिकं भक्तिमयं च कार्यक्रमं प्रस्तुतं करिष्यति।
रविवासरे प्रातःकालं भस्मारत्याः समये भगवत: महाकालस्य विशेषः शृङ्गारः कृतः। प्रातः ४ वादने मन्दिरस्य कपाटोद्घाटनानन्तरं गर्भगृहे स्थापितानां सर्वासां देवप्रतिमानां पूजनं कृतम्। ततः बाबा-महाकालस्य जलाभिषेकं कृत्वा दुग्ध-दधि-घृत-शर्कराफलरसैः निर्मितेन पञ्चामृतेन अभिषेकः कृतः। पूजनसमये भगवन्तं महाकालं त्रिशूलेन, त्रिपुण्ड्रेण, डमरुकेण च सह भांगेन शृङ्गारितम्। ‘हरि ॐ’ इति मन्त्रस्य उच्चारणेन जलार्पणा-नन्तरं कर्पूरारार्तिकी कृता। ततः ज्योतिर्लिङ्गं वस्त्रेण आच्छाद्य विधिविधानपूर्वकं भस्म समर्पितम्।
भस्मसमर्पणानन्तरं भगवत: महाकालस्य आकर्षकः शृङ्गारः कृतः। बाबा-महाकालाय शेषनागस्य रजतमुकुटं, रजतमुण्डमाला तथा रुद्राक्षमाला च धारिता। तदतिरिक्तं मोगरगुलाबयोः सुगन्धितपुष्पैः निर्मिताः मालाः अपि समर्पिताः। भगवते महाकालाय फलानां मिष्टान्नानां च नैवेद्यं समर्पितम्। भस्मारार्तिक्यां बहुसंख्यकाः श्रद्धालवः सम्मिलिताः तथा बाबा-महाकालस्य दर्शनं कृत्वा आशीर्वादं प्राप्तवन्तः।
Hindusthan Samachar / Divya Ranjan