बंगालं त्यक्तुं मनो निर्मिताय युवलक्ष्यसाधकाय अभिनवसावाय अमिलत् 25 लक्षरुप्यकाणां सम्मानः
कोलकाता, 01 सितंबरमासः (हि. स.)।देशे विदेशेषु च अनेकानि सुवर्णपदानि जित्वा स्वप्रतिभां सिद्धवत् आसनसोलस्य युवा निशानेबाजः अभिनवसावः अन्ततः स्वकीयस्यैव राज्यस्य हस्तेन महत्त्वपूर्णं सम्मानं प्राप्तवान्। पश्चिमबङ्गतः पर्याप्तं सहयोगं मान्यतां च न प्र
अभिनव साहू को चेक देते मुख्यमंत्री


कोलकाता, 01 सितंबरमासः (हि. स.)।देशे विदेशेषु च अनेकानि सुवर्णपदानि जित्वा स्वप्रतिभां सिद्धवत् आसनसोलस्य युवा निशानेबाजः अभिनवसावः अन्ततः स्वकीयस्यैव राज्यस्य हस्तेन महत्त्वपूर्णं सम्मानं प्राप्तवान्। पश्चिमबङ्गतः पर्याप्तं सहयोगं मान्यतां च न प्राप्तवान् इति कारणेन निराशः सः कदाचित् अन्यराज्यस्य पक्षतः क्रीडितुं विचारं कृतवान् आसीत्। अधुना अभिनवसावः मुख्यमन्त्रिणा शुभेन्द्वु-अधिकारी इत्यनेन ‘अटल-क्रीडासम्मानेन’ सम्मानितः तथा राज्यसर्वकारस्य पक्षतः पञ्चविंशतिलक्षरूप्यकाणाम् आर्थिकसहायताम् अपि प्राप्तवान्।

उल्लेखनीयं यत् केवलाष्टादशवर्षीयायाम् अवस्थायां निशानेबाजीक्षेत्रे स्वकीयां विशिष्टां परिचितिं निर्मितवान् अभिनवसावः जर्मनीदेशे आयोजितायां विश्वजूनियरनिशानेबाजीप्रतियोगितायां उत्कृष्टं प्रदर्शनं कुर्वन् दशमीटर-एयरराइफल-मिश्रितदलस्पर्धायां सुवर्णपदकं जितवान् आसीत्। अस्याः उपलब्धेः समये तेन विश्वकीर्तिमानमपि स्थापितम् आसीत्। राष्ट्रियक्रीडासु अपि तस्य नाम्ना कांस्यपदकं वर्तते।

अभिनवेन उक्तं यत् विदेशेषु पदकानि जित्वा अपि स्वकीयस्य राज्यस्य पक्षतः अपेक्षितं सहयोगं सम्मानं च न प्राप्यते स्म। अत एव श्रेष्ठप्रशिक्षणसुविधानां अन्वेषणाय तेन अमृतसरस्य एकस्मिन् महाविद्यालये प्रवेशः स्वीकृतः आसीत् तथा भविष्ये अन्यस्य राज्यस्य पक्षतः प्रतियोगितासु भागं ग्रहीतुं विचारः अपि कृतः आसीत्।

किन्तु राज्यसर्वकारस्य पक्षतः प्राप्तेन आश्वासनेन सम्मानेन च अधुना तस्य निर्णयः परिवर्तितः अस्ति। अभिनवेन उक्तं यत् स्वगृहात् स्वकीयात् राज्यात् च प्राप्तायाः मान्यतायाः अनुभूतिः भिन्ना भवति तथा अधुना सः पश्चिमबङ्गस्य पक्षतः एव क्रीडितुम् इच्छति।

प्राप्तसूचनानुसारं प्रायः सप्ताहपूर्वं राज्यस्य नूतनक्रीडामन्त्री डॉ. इन्द्रनीलखानः अभिनवेन तस्य पित्रा च सह वार्तालापं कृतवान् आसीत्। अस्मिन् अवसरे सर्वकारस्य पक्षतः सर्वसम्भवसहायतायाः विश्वासः प्रदत्तः, ततः सावपरिवारेण बङ्गालं त्यक्तुं विचारः परित्यक्तः।

अभिनवसावः सम्प्रति जूनियरवर्गे देशस्य प्रथमक्रमाङ्के तथा वरिष्ठवर्गे षष्ठस्थाने अस्ति। अधुना तस्य लक्ष्यं २०२८ तमे वर्षे आयोज्यमाने लॉस एञ्जिल्स् ओलम्पिक् इत्यत्र अस्ति तथा तमेव लक्ष्यं ध्यात्वा सः स्वकीयां प्रशिक्षणसिद्धतां अग्रे वर्धयति।

अभिनवस्य पिता रूपेशकुमारसावः उक्तवान् यत् स्वस्य निशानेबाजः भवितुम् इति स्वप्नं आर्थिकाभावस्य कारणेन पूर्णं न अभवत्। अतः पुत्रस्य जन्मनः अनन्तरमेव तं सफलं निशानेबाजं कर्तुम् इति लक्ष्यं तेन निर्धारितम् आसीत्। तेन उक्तं यत् राज्यसर्वकारात् प्राप्तया आर्थिकसहायतया अभिनवाय अधिकं श्रेष्ठं उन्नतं च प्रशिक्षणं प्राप्तुं शक्यते।

परिवारेण आशा व्यक्ता यत् आधुनिकप्रशिक्षणेन विदेशीयप्रशिक्षकाणां मार्गदर्शनेन च अभिनवः भविष्ये देशाय अधिकाः महत्त्वपूर्णाः उपलब्धीः प्राप्स्यति। राज्यसर्वकारात् प्राप्तस्य अस्य सम्मानस्य अनन्तरं युवा निशानेबाजस्य लक्ष्यं अधुना ओलम्पिक् क्रीडासु भारतस्य नाम गौरवान्वितं कर्तुम् अस्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani