Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १ सेप्टेम्बरमासः (हि.स.)। पञ्जाबविश्वविद्यालयस्य छात्रसङ्घनिर्वाचने अखिलभारतीयविद्यार्थिपरिषदः क्रमशः द्वितीयवारम् अध्यक्षपदस्य प्राप्तेः विजयाय रक्षामन्त्री राजनाथसिंहः, गृहमन्त्री अमितशाहः, कृषिमन्त्री शिवराजसिंह-चौहानः, वाणिज्योद्योगमन्त्री पीयूषगोयलः इत्यादयः नैके नेतारः अभाविप-कार्यकर्तृभ्यः वर्धापनानि शुभकामनाश्च प्रदत्तवन्तः।
रक्षामन्त्री राजनाथसिंहः मङ्गलवासरे ‘एक्स’-माध्यमेन प्रकाशिते सन्देशे अभाविप-दलस्य विजयाय कार्यकर्तृभ्यः वर्धापनानि प्रदत्तवान्। सः अवदत् यत् एषः निर्णायकः जनादेशः यूनां ‘राष्ट्रं प्रथमम्’ इति आदर्शे अटलविश्वासं प्रदर्शयति। सः आशां व्यक्तवान् यत् अभाविप छात्रकल्याणाय राष्ट्रनिर्माणाय च पूर्णनिष्ठया कार्यं निरन्तरं करिष्यति।
अमितशाहः ‘एक्स’-माध्यमेन प्रकाशिते सन्देशे पञ्जाबविश्वविद्यालयस्य छात्र-सङ्घनिर्वाचने अभाविप-दलस्य विजयाय परिषदः सर्वेभ्यः कार्यकर्तृभ्यः वर्धापनानि प्रदत्तवान्। सः अवदत् यत् क्रमशः द्वितीयवारं प्राप्ता एषा विजयः युवशक्तेः ‘राष्ट्रं प्रथमम्’ इति विचारधारायाम् अटलविश्वासस्य प्रमाणम् अस्ति। शाहः विश्वासं व्यक्तवान् यत् परिषदः कार्यकर्तारः स्वामीविवेकानन्दस्य आदर्शान् अनुसरन्तः छात्रहिताय निरन्तरं सङ्कल्पपूर्वकं कार्यं करिष्यन्ति।
केन्द्रीयकृषिमन्त्री शिवराजसिंहचौहानः अवदत् यत् पञ्जाबविश्वविद्यालयस्य छात्र-सङ्घनिर्वाचने अभाविप-दलस्य क्रमशः द्वितीयवारं प्राप्त: भव्यविजयः सूचयति यत् अद्यतन युवा सकारात्मकचिन्तनेन, स्पष्टविचारेण कार्यनिष्ठया च युक्तायाः दलस्य पक्षे तिष्ठति। सः परिषदः कार्यकर्तृभ्यः वर्धापनानि प्रदाय छात्रहितं सर्वोपरि मत्वा अग्रे गन्तुं शुभकामनाः प्रदत्तवान्।
पीयूषगोयलः अभाविप-दलस्य क्रमशः द्वितीयविजयं विश्वविद्यालयस्य यूनां विश्वासस्य तथा च परिषदः कार्यकर्तॄणां वर्षाणां परिश्रमस्य, प्रतिबद्धतायाः, छात्रहिते समर्पणस्य च विजयः इति उक्तवान्। सः अवदत् यत् स्वामीविवेकानन्दस्य विचारैः प्रेरिताः अभाविपस्य पञ्जाबस्य कार्य-कर्तारः विद्यार्थिनां स्वरः भवन्तु तथा च विश्वविद्यालयस्य विकासे स्वकीयां महत्त्वपूर्णां भूमिकां निर्वहन्तु।
केन्द्रीयसंस्कृतिपर्यटनमन्त्री गजेन्द्रसिंह-शेखावतः अवदत् यत् पञ्जाब-विश्वविद्यालयस्य छात्रसङ्घनिर्वाचने अभाविप-दलस्य क्रमशः द्वितीयविजयः युवशक्तेः राष्ट्रनिष्ठविचारस्य सङ्कल्पस्य च सकारात्मकः सन्देशः अस्ति। सः अवदत् यत् भारतस्य यूनां राष्ट्रवादेन स्वाभाविकः सम्बन्धः वर्तते, अत एव आयातिताः विचाराः देशस्य एकताम् अखण्डतां च क्षतिं कर्तुं न शक्नुवन्ति।
दिल्लीराज्यस्य मुख्यमन्त्री रेखागुप्ता अभाविप-दलस्य दलं तथा च पञ्जाब-विश्वविद्यालयस्य छात्रसङ्घस्य अध्यक्षपदे विजितवन्तं अङ्कितविधानं वर्धापितवती। सा अवदत् यत् क्रमशः द्वितीया ऐतिहासिकी विजयः सूचयति यत् देशस्य युवा राष्ट्रवादं, ‘राष्ट्रं प्रथमम्’ इति भावनां भारतीयतायाः गौरवं च स्वस्य राजनीतेः दिशारूपेण स्वीकरोति। सा युवशक्तिं नवभारतस्य महत्तमा शक्तिः इति उक्तवती।
मध्यप्रदेशस्य मुख्यमन्त्री मोहनयादवः अपि अभाविप-दलस्य क्रमशः द्वितीयाम् ऐतिहासिकीं विजयां प्रति परिषदः सर्वेभ्यः कार्यकर्तृभ्यः वर्धापनानि प्रदत्तवान्। सः अवदत् यत् एषा सफलता ‘राष्ट्रं प्रथमम्’ इति सङ्कल्पस्य तथा युवशक्तौ विद्यार्थिनाम् अटलविश्वासस्य सशक्तं प्रमाणम् अस्ति। सः विश्वासं व्यक्तवान् यत् परिषदः कार्यकर्तारः यूनाम् आकाङ्क्षाणां स्वरं भूत्वा छात्रहिताय, समाजहिताय, राष्ट्रहिताय च एतेनैव समर्पणेन कार्यं निरन्तरं करिष्यन्ति।
उल्लेखनीयं यत् पञ्जाबविश्वविद्यालयस्य छात्रसङ्घनिर्वाचने सोमवासरे अभाविप-दलस्य प्रत्याशी अङ्कितविधानः अध्यक्षपदे विजयम् अवाप्तवान्। अस्मिन् निर्वाचने शिरोमणिअकालीदलस्य छात्रसङ्घटनेन ‘स्टूडेन्ट ऑर्गेनाइजेशन ऑफ इण्डिया’ इत्यनेन अभाविप-दलाय समर्थनं प्रदत्तम् आसीत्। गतवारमपि अभाविप-दलस्य प्रत्याशी अध्यक्षपदे विजयी अभवत्।
हिन्दुस्थान समाचार / Divya Ranjan