Enter your Email Address to subscribe to our newsletters



जयपुरम्, ०१ सेप्टेम्बरमासः (हि.स.)। वैशालीनगरस्थिते बीएपीएस-श्री-स्वामिनारायण-अक्षरधाममन्दिरे अग्रिमे ४ सेप्टेम्बरदिने शुक्रवासरे श्रीकृष्ण-जन्माष्टमीमहोत्सवः हर्षोल्लासेन भक्तिभावेन च आचरिष्यते। अस्य महोत्सवस्य कृते मन्दिरपरिसरे सज्जताः उत्साहपूर्वकं प्रचलन्ति। जन्माष्टमीपर्वणि सहस्रशः श्रद्धालवः आगमिष्यन्ति इति सम्भावनां दृष्ट्वा दर्शनस्य, अभिषेकस्य अन्यव्यवस्थानां च अन्तिमरूपं प्रदीयते।
कोठारीसन्तस्य जयतीर्थस्वामिनः अनुसारं जन्माष्टमीपर्वणि श्रद्धालुभ्यः प्रातः अष्टवादनतः रात्रेः द्वादशवादनपर्यन्तं ठाकुरजीमहोदयस्य दर्शनस्य अभिषेकस्य च अवसरः प्राप्स्यते। मन्दिरम् आकर्षकाभिः प्रदर्शिनीभिः सज्जीकृतं भविष्यति। ठाकुरमहोदयस्य विशेषं मनोहरं प्राकृतिकश्रृङ्गारं विधाय छप्पनभोगः समर्पयिष्यते।
तेन उक्तं यत् मन्दिरपरिसरे भगवतः श्रीकृष्णस्य जीवनचरित्राधारिताः विविधाः प्रदर्शिन्यः सज्जीकृताः भविष्यन्ति। तासु जन्मोत्सवप्रदर्शिनी, गोकुलगमनम्, पूतनावधः कंसवधश्च प्रमुखाः भविष्यन्ति। एताभिः प्रदर्शिनीभिः भगवतः श्रीकृष्णस्य जीवनप्रसङ्गाः प्रतिकूलपरिस्थितिषु जीवनयापनस्य प्रेरणा च प्रदर्शिता भविष्यति।
तथैव मन्दिरम् आगच्छद्भ्यः सर्वेभ्यः हरिभक्तेभ्यः ठाकुरमहोदयस्य पञ्चामृता-भिषेकस्य पञ्जीरी इत्यस्य विशेषप्रसादस्य च लाभः प्राप्स्यते। जन्माष्टमीपर्वणि श्रद्धालूनां कृते धार्मिकाध्यात्मिक-वातावरणे विशेषव्यवस्थाः क्रियन्ते।
स्वामिनारायण-अक्षरधाममन्दिरस्य जयपुर-प्रबन्धसमितेः अनुसारं जन्माष्टमी-महोत्सवकाले सत्सङ्ग-सभायां भगवतः श्रीकृष्णस्य जीवना-धारिताः विविधाः सांस्कृतिका-ध्यात्मिककार्यक्रमाः भविष्यन्ति। बाल-युवमण्डलस्य पक्षतः कृष्णलीला नृत्यनाटिका च प्रस्तूयते। सङ्गीतज्ञाः सङ्कीर्तनमाध्यमेन भगवतः श्रीकृष्णस्य लीलाचरित्राणां गुणगानं करिष्यन्ति। सन्तः स्वमार्गदर्शनेन भगवान् श्रीकृष्णस्य जीवनमूल्यानि दैनन्दिन-जीवने आचरितुं सन्देशं दास्यन्ति।
मन्दिरपरिसरे बालकैः बालसंस्कारः, व्यसनमुक्तिः पारिवारिकशान्तिः इत्यादि-विषयाधारिताः विशेषप्रदर्शिन्यः अपि आयोजयिष्यन्ते। श्रद्धालवः एताभिः प्रदर्शिनीभिः संस्कारस्य, परिवारस्य स्वस्थजीवनशैल्या सम्बद्धान् सन्देशान् ज्ञातुं शक्ष्यन्ति।
जन्माष्टमीपर्वणि बहुसंख्यकानां श्रद्धालूनाम् आगमनं दृष्ट्वा मन्दिरे विविधव्यवस्थाः क्रियन्ते। दर्शनं सुगमं कर्तुं सन्तैः कार्यकर्तृभिश्च व्यवस्थाः अन्तिमरूपं नीयन्ते। श्रद्धालूनां सुविधायै निःशुल्कपादत्राणगृहस्य व्यवस्था अपि भविष्यति।
Hindusthan Samachar / Divya Ranjan