Enter your Email Address to subscribe to our newsletters

गुवाहाटी, १ सेप्टेम्बरमास: (हि.स.)। असमस्य मुख्यमन्त्री डॉ. हिमन्तविश्वसरमा मङ्गलवासरे स्नातकपदवीं प्राप्तवद्भ्यः युवभ्यः ‘मुख्यमन्त्री जीवनप्रेरणा’ इति योजनायाः धनराशिं प्रदत्तवान्। धनराशि-प्रदानानन्तरं आयोजिते वार्ताहरसम्मेलने मुख्यमन्त्री अवदत् यत् योजनायाः अन्तर्गतं नवस्नातकेभ्यः चतुर्णां मासानां धनराशिः एकस्मिन् समये प्रदीयते। प्रत्येकं लाभार्थिनं प्रतिमासं २,५०० रूप्यकाणां आर्थिकसहायता प्रदास्यते। अस्मिन् चरणे ४८,१८८ छात्राः योजनायाः लाभं प्राप्स्यन्ति।
मुख्यमन्त्री अवदत् यत् उच्चशिक्षां पूर्णां कृत्वा रोजगारस्य अथवा जीविकायाः अग्रिमचरणस्य दिशि गच्छद्भ्यः युवभ्यः आर्थिकसहयोगं प्रदातुमेव सर्वकारस्य उद्देश्यम् अस्ति। युवान् प्रेरयन् सः अवदत् यत् जीवने आत्मविश्वासः विश्वासश्च एव सर्वात् महत्त्वपूर्णं धनम् अस्ति। अस्मिन् अवसरे सः युवभिः सह प्रेरणादायकां कथामपि अश्रावयत्।
सीएम-फ्लाइट्-योजनया विश्वस्तरीय-मानवसंसाधननिर्माणे बलम्
मुख्यमन्त्री ‘मुख्यमन्त्री विदेशीयभाषा-प्रशिक्षणयोजनायाः’ अन्तर्गतं सीएम-फ्लाइट्-योजनायाः धनराशिमपि प्रदत्तवान्। सः अवदत् यत् अस्याः योजनायाः माध्यमेन विश्वस्तरीयमानव-संसाधनस्य निर्माणं प्राथमिकतया करिष्यते।
सः अवदत् यत् जापानीभाषा-प्रशिक्षणकार्यक्रमाय प्रत्येकं चयनिताय अभ्यर्थिने एकलक्षरूप्यकाणां आर्थिक-सहायता प्रदास्यते। प्रशिक्षणं पूर्णं कृत्वा रोजगारं प्राप्ते सति प्रत्येकस्मै अभ्यर्थिने पञ्चाशत्सहस्ररूप्यकाणाम् अतिरिक्तानुदानमपि प्रदास्यते।
त्रयाणां जनपदानां १६,७४६ जलौघपीडित-परिवारेभ्यः १५-१५ सहस्ररूप्यकाणि
मुख्यमन्त्रिणा शिवसागर-चराइदेव-जोरहाट्-जनपदानां तेषां जलौघपीडित-परिवाराणाम् अन्तरिमजलौघसहायतायाः प्रथमः भागः अपि प्रदत्तः, येभ्यः पूर्वं सहायता न प्राप्ता आसीत्।
मुख्यमन्त्रिणा प्रत्यक्षलाभान्तरणस्य माध्यमेन १६,७४६ परिवारेभ्यः १५-१५ सहस्ररूप्यकाणां सहायता प्रदत्ता। एतेन राज्ये अन्तरिमजलौघसहायतया लाभा-न्वितानां परिवाराणां संख्या १,१७,०९५ इति अभवत्।
Hindusthan Samachar / Divya Ranjan