Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 01 सितंबरमासः(हि.स.)।सार्वजनिकक्षेत्रस्य प्रमुखा अभियान्त्रिकी कम्पनी भारत हेवी इलेक्ट्रिकल्स लिमिटेड इत्यनेन वित्तवर्षे २०२५ २६ केन्द्रसर्वकाराय २८३ कोटिः ५६ लक्षरूप्यकाणां अन्तिमलाभांशः प्रदत्तः। कम्पन्या मङ्गलवासरे सामाजिकमाध्यमे एक्स इत्यत्र प्रकाशिते सन्देशे उक्तं यत् बीएचईएल इत्यनेन वित्तवर्षे २०२५ २६ भारतसर्वकाराय २८३ कोटिः ५६ लक्षरूप्यकाणां अन्तिमलाभांशः प्रदत्तः।
अस्य अन्तिमलाभांशस्य धनादेशं बीएचईएल संस्थायाः अध्यक्षः प्रबन्धनिदेशकश्च के सदाशिवमूर्तिः केन्द्रीयभारीउद्योग इस्पातमन्त्री एच डी कुमारस्वामिने समर्पितवान्।
बीएचईएल इत्यनेन उक्तं यत् वित्तवर्षे २०२५ २६ प्रदत्तः २८३ कोटिः ५६ लक्षरूप्यकाणां लाभांशः वित्तवर्षे २०२४ २५ प्रदत्तस्य लाभांशस्य अपेक्षया सार्धद्विगुणात् अधिकः अस्ति। केन्द्रसर्वकारस्य समीपे बीएचईएल संस्थायाः ५८ दशमलव १७ प्रतिशतं स्वामित्वांशः अस्ति। अस्य स्वामित्वांशस्य आधारेण एषः धनादेशः कम्पन्या प्रदत्तः अस्ति। वित्तवर्षे २०२५ २६ कम्पनीस्य सर्वेभ्यः अंशधारकेभ्यः समग्ररूपेण ४८७ कोटिः ४९ लक्षरूप्यकाणां लाभांशः प्रदत्तः अस्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani