Enter your Email Address to subscribe to our newsletters

कोलकाता, 01 सितंबरमासः (हि. स.)।
केन्द्रीय-शिक्षा-राज्यमन्त्री तथा भाजपानेता डॉ. सुकान्त-मजूमदारः कोलकाता-नगर-निगम-निर्वाचने भाजपायाः विजयस्य विश्वासं प्रकटितवान्। मङ्गलवासरे पत्रकारैः सह वार्तालापे तेन उक्तं यत् दलस्य दायित्वं तस्मै प्रदत्तम् अस्ति। भाजपा एकतया निर्वाचनं सम्मुखीकृत्य विजयमवाप्स्यति। राजनीतौ कदापि सः समयः न भवति, यदा पुरतः कापि चुनौती न भवेत्।
मुख्यमन्त्रिणीं ममताबनर्जीम् प्रति व्यङ्ग्यं कुर्वन् सुकान्त-मजूमदारः सामाजिक-माध्यमे उक्तवान् यत् अधुना कश्चित् अपि तस्याः वचनं न शृणोति। तेन आरोपितं यत् ममता-बनर्जी स्वयमेव जनान् स्वकीयां वाणीं श्रोतुं अनुरोधयति। तेन उक्तं यत् रात्रेः विलम्बिते समये तस्याः वचनं श्रोतुं केवलं द्वौ-त्रयः मद्यपानमत्ताः जनाः एव गच्छन्ति, एतेषां अतिरिक्तं कोऽपि न गच्छति।
कैमक-स्ट्रीट्-स्थिते स्वकीय-कार्यालये विज्ञापन-पट्टिकायाः निष्कासनसमये अभवत् या धक्कामुक्की-घटना, तस्याः सम्बन्धे अभिषेक-बनर्जी कोलकाता-पुलिसस्य समक्षं उपस्थितेः विषये अपि सुकान्त-मजूमदारेण टिप्पणी कृता। तेन उक्तं यत् अभिषेक-बनर्जी स्वकीयमेव दलं त्यक्तवन्तः। अधुना तेषां समीपे किमपि दलं अवशिष्टं नास्ति। तेषां समीपे किमपि कार्यं नास्ति, अतः ते नाटकम् अभिनयन्ति।
सुकान्त-मजूमदारेण उक्तं यत् ते नाटकम् अभिनयन्तु। व्यङ्ग्यं कुर्वन् तेन उक्तं यत् अभिषेक-बनर्जी स्वयमेव शाहरुख-खानम् इव मन्यन्ते तथा डेरेक ओ'ब्रायन् स्वयमेव सुनील-शेट्टीम् इव मन्यते। तेन उक्तं यत् यदा न्यायालयः तान् उत्तरदायित्वस्य सम्मुखे स्थापयिष्यति, तदा तेषां सर्वं बोधिष्यते।
---------------
Hindusthan Samachar / Dheeraj Maithani