ब्रह्म सरोवरेण सहितस्य कुरुक्षेत्रस्य समग्र सौंदर्यीकरणाय सर्वकारपरतया सज्जायोजना: नायब सिंह सैनी
चण्डीगढः। हरियाणस्य मुख्यमन्त्री नायबसिंहसैनी अवदत् यत् अन्तर्राष्ट्रियरूपेण प्रसिद्धे धार्मिकस्थले कुरुक्षेत्रे ब्रह्मसरोवरसहितस्य नगरस्य प्रमुखधार्मिकस्थलानां सौन्दर्यीकरणाय श्रद्धालूनां सुविधानां विस्ताराय च राज्यसर्वकारेण व्यापकयोजना निर्मिता अ
हरियाणा के मुख्यमंत्री नायब सैनी विधानसभा में जानकारी देते हुए


चण्डीगढः। हरियाणस्य मुख्यमन्त्री नायबसिंहसैनी अवदत् यत् अन्तर्राष्ट्रियरूपेण प्रसिद्धे धार्मिकस्थले कुरुक्षेत्रे ब्रह्मसरोवरसहितस्य नगरस्य प्रमुखधार्मिकस्थलानां सौन्दर्यीकरणाय श्रद्धालूनां सुविधानां विस्ताराय च राज्यसर्वकारेण व्यापकयोजना निर्मिता अस्ति। योजनानुसारं विभिन्नानि विकाससौन्दर्यीकरणकार्याणि चरणबद्धरूपेण अग्रे वर्ध्यन्ते। अनेककार्याणां निविदाः प्रकाशिताः सन्ति तथा विश्रामगृहम् सहितानि अन्यानि कार्याणि निविदाप्रक्रियायां सन्ति। मुख्यमन्त्री मङ्गलवासरे हरियाणाविधानसभायाः प्रश्नकाले विधायकस्य अशोकअरोडस्य ब्रह्मसरोवरकुरुक्षेत्रस्य सम्बन्धे पृष्टस्य प्रश्नस्य उत्तरं ददन् एतत् अवदत्।

नायबसिंहसैनी अवदत् यत् विधायकः अशोकअरोडः ब्रह्मसरोवरस्य विषये स्वचिन्तां प्रकटितवान् तथा पूर्वमपि अयं विषयः सदने उत्थापितवान्। सम्बन्धितमन्त्रिणा अस्मिन् विषये सदनाय विस्तरेण सूचना प्रदत्ता अस्ति। मुख्यमन्त्री अवदत् यत् सर्वकारेण ब्रह्मसरोवरस्य तस्य समीपस्थक्षेत्रस्य च सौन्दर्यीकरणस्य सम्पूर्णा योजना निर्मिता अस्ति। विश्रामगृहम् सहितानि विभिन्नानि कार्याणि निविदाप्रक्रियायां सन्ति तथा आगामीसमये योजनाबद्धरूपेण एतानि कार्याणि पूर्णानि करिष्यन्ते।

सः अवदत् यत् अधुनैव कुरुक्षेत्रे श्रीगुरुतेगबहादुरस्य शहीदीदिवसः आचरितः आसीत्, यस्मिन् प्रधानमन्त्रिणा नरेन्द्रमोदिना अपि सहभागिता कृता आसीत्। कुरुक्षेत्रस्य धार्मिकं ऐतिहासिकं च महत्त्वं दृष्ट्वा सर्वकारेण अस्य समग्रविकासाय सौन्दर्यीकरणाय च सम्पूर्णा कार्ययोजना निर्मिता अस्ति तथा तदनुसारं कार्याणि अग्रे वर्धन्ते।

मुख्यमन्त्री कुरुक्षेत्रस्य रेलयानोन्नतमार्गस्य उल्लेखं कृत्वा अवदत् यत् प्रधानमन्त्रिणा नरेन्द्रमोदिना अधुनैव अस्य उद्घाटनं कृतम्। सः अवदत् यत् यदा मनोहरलालः मुख्यमन्त्री आसीत् तथा सः स्वयम् सांसदः आसीत्, तदा अस्य परियोजनायाः विषये चर्चा कृता आसीत्। अधुना रेलयानोन्नतमार्गः निर्मितः पूर्णश्च अस्ति। अस्याः परियोजनायाः कारणेन नगरं रेलमार्गद्वाराणां समस्यायाः मुक्तं जातम् तथा नगरस्य सम्पर्कव्यवस्थाऽपि उत्तमा जाता।

सः अवदत् यत् एतादृशस्य विशालस्य रेलयानोन्नतमार्गस्य शीघ्रनिर्माणं प्रशंसनीयम् अस्ति। नायबसिंहसैनी अवदत् यत् राज्यसर्वकारः कुरुक्षेत्रस्य धार्मिकायाः ऐतिहासिकायाश्च गरिमायाः अनुरूपं तस्य विकासाय सौन्दर्यीकरणाय श्रद्धालूनां सुविधानां विस्ताराय च निरन्तरं कार्यं करोति।

Hindusthan Samachar / Dheeraj Maithani