मुख्यमंत्री विष्णुदेव सायोऽद्य सायंगमिष्यति नव दिल्ली
रायपुरम्, 01 सितंबरमासः (हि.स.)।छत्तीसगढस्य मुख्यमन्त्री विष्णुदेवसायः अद्य मङ्गलवासरे सायंकाले नवदिल्लीनगरस्य यात्रायै गमिष्यति। निर्धारितकार्यक्रमानुसारं मुख्यमन्त्री प्रातः मन्त्रालये विविधेष्वुपवेशनेषु सहभागं करिष्यति। मुख्यमन्त्री प्रातः सार्
मुख्यमंत्री विष्णुदेव साय


रायपुरम्, 01 सितंबरमासः (हि.स.)।छत्तीसगढस्य मुख्यमन्त्री विष्णुदेवसायः अद्य मङ्गलवासरे सायंकाले नवदिल्लीनगरस्य यात्रायै गमिष्यति। निर्धारितकार्यक्रमानुसारं मुख्यमन्त्री प्रातः मन्त्रालये विविधेष्वुपवेशनेषु सहभागं करिष्यति।

मुख्यमन्त्री प्रातः सार्धैकादशवादनतः सार्धद्वादशवादनपर्यन्तं सामान्यप्रशासनविभागस्य बैठकं करिष्यति। ततः मध्याह्ने सार्धद्वादशवादनतः सार्धैकवादनपर्यन्तं सेवासङ्कल्पाभियानस्योपवेशने सहभागं करिष्यति।

उपवेशनानां समाप्तेः अनन्तरं मुख्यमन्त्री मध्याह्ने सार्धद्विवादने मुख्यमन्त्रिनिवासं प्रत्यागमिष्यति। निर्धारितकार्यक्रमानुसारं मुख्यमन्त्री सायं चतुःपञ्चाशदधिकचतुर्वादने इण्डिगोस्य नियमितविमानेन नवदिल्लीनगरं प्रति प्रस्थास्यति तथा सायं पादोनसप्तमवादने तत्र प्राप्स्यति।

नवदिल्लीनगरे प्रवासकाले मुख्यमन्त्रिणः रात्रिविश्रामः छत्तीसगढभवने भविष्यति।

Hindusthan Samachar / Dheeraj Maithani