Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०१ सेप्टेम्बरमासः (हि.स.)। भारतीयसंसदीयप्रतिनिधिमण्डलं १३ तः १९ सेप्टेम्बरपर्यन्तं दक्षिणाफ्रिकादेशस्य केपटाउन्नगरे आयोज्यमाने ६९ तमे राष्ट्रमण्डलसंसदीयसम्मेलने भागं ग्रहीष्यति। सम्मेलने भारतीयप्रतिनिधि-मण्डलं कृत्रिमबुद्धिमत्ता, जलवायु-शिथिलता, समावेशीव्यापारः, मानवा-धिकाराः संसदीयलोकतन्त्रं च इत्येतैः सम्बद्धेषु महत्त्वपूर्णविषयेषु भारतस्य दृष्टिकोणं प्रस्तोष्यति।
सम्मेलनस्य सज्जतामधिकृत्य मङ्गल-वासरे लोकसभाध्यक्षस्य ओमबिरला इत्यस्य अध्यक्षतायाम् उच्चस्तरीया सूचनासभा आयोजिता। सभायां बिरलस इत्यनेन भारतीयप्रतिनिधिमण्डलस्य प्रभाविप्रतिभागितायै बलं दत्त्वा सर्वान् सदस्याः महिला-प्रतिनिधयश्च निर्धारितेषु सत्रेषु कार्यशालासु च सक्रियतया भागं ग्रहीतुं आहूताः।
तेन प्रतिनिधिभ्यः चर्चासमये भारतस्य राष्ट्रियहितानां दृष्टिकोणस्य च प्रभावीप्रस्तुतिकरणं वैश्विकमञ्चे कर्तुम् आग्रहः कृतः। तथैव सम्मेलनस्य सभासु समयपालनस्य अनुशासनस्य च विशेषं ध्यानं दातुं कथितम्, येन भारतीय-प्रतिनिधिमण्डलं आदर्शोदाहरणं स्थापयितुं शक्नुयात्।
अस्य वर्षस्य सम्मेलनस्य मुख्यविषयः अस्ति— “परिवर्तमानवैश्विकव्यवस्थायां अन्ताराष्ट्रियविधिं संसदीयलोकतन्त्रं च सुदृढीकर्तुम्— राष्ट्रमण्डलस्य नेतृत्वकारी भूमिका”। अस्य अन्तर्गतं परिवर्तमान-वैश्विकव्यवस्थायां अन्ताराष्ट्रियविधिं संसदीयलोकतन्त्रं च सुदृढीकर्तुं संसदां भूमिकायाः विषये चर्चा भविष्यति।
सूचनासभायाः अवधौ भारतीयप्रतिनिधि-मण्डलाय षट् प्रमुखानां सीपीसी-कार्यशालानाम् कार्यसूच्याः विषयेऽपि चर्चा कृता। तासु विविधार्थव्यवस्थासु समावेशिनः निष्पक्षव्यापारस्य, सुलभ-संसदः दिव्याङ्गजनानां समावेशस्य च, जलवाय्वनुकूलनस्य शिथिलतायाश्च, संसद्सु कृत्रिमबुद्धिमत्तायाः वर्तमान-प्रयोगस्य, मानवाधिकाराणां संरक्षणस्य तथा विधिनिर्माणोत्तर-समालोचनायाः च विषयाः अन्तर्भवन्ति।
सम्मेलने लोकतन्त्रे यूनां सहभागितायाः तेषां विश्वासस्य च सुदृढीकरणस्य विषयेऽपि विशेषचर्चा भविष्यति। अस्य अन्तर्गतं “लोकतन्त्रे यूनां विश्वासं सहभागितां च सुदृढीकर्तुम्” इति विषये यूनां गोलमेजसभा आयोज्यते। एतदतिरिक्तं सीपीए-महासभायाः वादविवादोऽपि भविष्यति।
महिलासांसदां सम्बद्धविषयेषु दशमे राष्ट्रमण्डलमहिलासंसद्सदस्यसम्मेलनस्य अन्तर्गतं “लैङ्गिकसंवेदनशीलतां संस्थागतदायित्वं करणीयम्” इति विषये चतस्रः विशेषकार्यशालाः आयोजयिष्यन्ते। तासु लैङ्गिकसंवेदनशीलतां संस्थागत-दायित्वं कर्तुं विषये विचारविमर्शः भविष्यति।
सभायाः अवधौ लोकसभामहासचिवेन सम्बद्धमन्त्रालयानां वरिष्ठाधिकारिभिश्च सम्मेलनस्य रूपरेखायाः प्रशासनिकानां अन्येषां च महत्त्वपूर्णपक्षाणां विषये प्रतिनिधिभ्यः सूचना प्रदत्ता। सभायां विभिन्नराज्यानां विधानसभानां विधानपरिषदां च पीठासीनाधिकारिणोऽपि उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan