Enter your Email Address to subscribe to our newsletters

-बहुषु मुख्यप्रस्तावेषु भविष्यति चर्चा, लैपटॉपराशि-अंतरणोत्तरं दिल्लीं प्रस्थास्यते मुख्यमंत्री
भोपालम्, 01 सितंबरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्रिणः डॉ. मोहन यादवस्य अध्यक्षतायां अद्य मङ्गलवासरे मध्याह्नद्वादशवादने पञ्चदशमिनिटसमये मन्त्रालये राज्यस्य मन्त्रिमण्डलस्य महत्त्वपूर्णा सभा भविष्यति। सभायां प्रदेशस्य विकासः, मार्गाः, आधारभूतसंरचनासम्बद्धाः च अनेकाः प्रस्तावाः चर्चां प्राप्स्यन्ति तथा तेषां अनुमोदनस्य सम्भावना अस्ति। एतेषु भोपाल-पश्चिम-द्रुतमार्गस्य पुनरीक्षितव्ययसम्बन्धी प्रस्तावः प्रमुखतया सम्मिलितः अस्ति।
भोपाल-पश्चिम-द्रुतमार्ग-परियोजना राजधानीनगरस्य यातायातव्यवस्थायै महत्त्वपूर्णा मन्यते। अस्य निर्माणेन नगरे भारीवाहनानां बहिर्गतयातायातस्य च भारः न्यूनीभवितुं शक्यते तथा भोपालनगरस्य परितः सम्पर्कव्यवस्था अपि सुदृढा भवितुमर्हति। मन्त्रिमण्डले परियोजनायाः संशोधितव्ययसम्बन्धे प्रस्तावस्य निर्णयः कृतः चेत् तस्य अग्रिमकार्यस्य गतिः वर्धितुं सम्भावना अस्ति।
सेवानिवृत्तस्य भारतीय-आरक्षि-सेवाधिकारिणः ए. साई मनोहरस्य मुख्यमन्त्रिणः परामर्शकरूपेण नियुक्तिसम्बन्धी प्रस्तावोऽपि सभायां अन्तिमनिर्णयार्थं प्रस्तुतः भवितुं शक्नोति। तदतिरिक्तं मालथौन-बीनामार्गस्य विकासः विस्तारीकरणं च तथा मार्ग-अधारभूतसंरचनासम्बद्धाः अन्ये प्रस्तावाः अपि मन्त्रिमण्डलस्य समक्षं प्रस्तुताः भवितुं सम्भावनाऽस्ति।
मन्त्रिमण्डलस्य सभायाः पूर्वं मुख्यमन्त्री डॉ. मोहन यादवः भोपालनगरे अनेकासु कार्यक्रमेषु भागं ग्रहीष्यति। सः प्रातः दशवादने चत्वारिंशन्मिनिटसमये कुशाभाऊ ठाकरे सम्मेलनकेन्द्रं प्राप्स्यति। तत्र कार्यक्रमस्य अनन्तरं प्रातः एकादशवादने चत्वारिंशन्मिनिटसमये प्रतिभाशालिभ्यः विद्यार्थिभ्यः सङ्गणकयन्त्रक्रयणार्थं धनराशेः अन्तरणं करिष्यति। ततः प्रायः एकादशवादने पञ्चपञ्चाशन्मिनिटसमये मन्त्रालयं प्राप्स्यति, यत्र मध्याह्ने द्वादशवादने पञ्चदशमिनिटसमये मन्त्रिमण्डलस्य सभायाः अध्यक्षतां करिष्यति। मन्त्रिमण्डलस्य सभायाः अनन्तरं मुख्यमन्त्री अपराह्णे द्विवादने पञ्चाशन्मिनिटसमये नवदिल्ल्यै प्रस्थास्यति। अतः सम्पूर्णे दिने मुख्यमन्त्रिणः कार्यक्रमेषु मन्त्रिमण्डले च स्वीक्रियमाणेषु निर्णयेषु प्रदेशस्य जनानां विशेषं ध्यानं भविष्यति।
--------------
Hindusthan Samachar / Dheeraj Maithani