Enter your Email Address to subscribe to our newsletters

पटना, 01 सितम्बरमासः (हि.स.)।बिहारस्य कृषिव्यवस्थां दत्तांशाधारितां पारदर्शिनीं आधुनिकां च कर्तुं कृषिविभागेन डिजिटलक्रॉपसर्वेक्षणस्य कार्यं तीव्रगत्या क्रियते। राज्यस्य सर्वेषु अष्टत्रिंशत् जनपदेषु शारदीयस्य खरीफस्य च २०२६ ऋतोः कृते डिजिटलक्रॉपसर्वेक्षणं प्रचलति। कृषिविभागेन अस्मिन् वर्षे खरीफऋतौ कुलं द्विकोटिद्विषष्टिलक्षाष्टचत्वारिंशत्सहस्रसप्तशतषोडश भूखण्डानां सर्वेक्षणस्य लक्ष्यं निर्धारितम् अस्ति। अधुना पर्यन्तं प्रायः एकचत्वारिंशत्लक्षभूखण्डानां डिजिटलसर्वेक्षणं पूर्णं कृतम् अस्ति।
कृषिमन्त्री विजयकुमारसिन्हा उक्तवान् यत् डिजिटलक्रॉपसर्वेक्षणस्य कार्यं त्रयोदश अगस्त् २०२६ दिनाङ्कतः प्रारब्धम् अस्ति तथा च तत् त्रिंशत् सितम्बर् २०२६ पर्यन्तं पूर्णं कर्तुं लक्ष्यं निर्धारितम् अस्ति। सर्वेक्षणस्य माध्यमेन क्षेत्रेषु वपितानां फसलानां डिजिटलविवरणं सज्जीक्रियते। अनेन आगामिकाले कृषकेभ्यः कृषिविभागाय च चलदूरभाषस्य माध्यमेन फसलसम्बन्धिनी अद्यतनसूचना उपलब्धीकर्तुं सहायता भविष्यति।
तेन उक्तं यत् डिजिटलक्रॉपसर्वेक्षणस्य अन्तर्गतं अत्याधुनिकप्रौद्योगिक्याः उपयोगं कुर्वद्भिः क्षेत्रस्य, फसलस्य तथा तस्य जियोटैगयुक्तस्य चित्रस्य सहितं आवश्यकविवरणं चलदूरभाषीयस्य अनुप्रयोगस्य माध्यमेन अङ्कीकृत्य संगृह्यते। अनेन राज्यस्य कस्मिन् क्षेत्रे, कस्य कृषकस्य कस्मिन् भूखण्डे, का फसलः वपिता अस्ति इति सटीकसूचना प्राप्तुं शक्यते। सर्वेक्षणे धानस्य सहिताः खरीफऋतोः प्रमुखाः फसलाः, उद्यानिकीफसलाः तथा एकमासात् अधिककालपूर्वं रोपिताः फसलाः अपि सम्मिलिताः सन्ति।
विजयसिन्हा उक्तवान् यत् डिजिटलक्रॉपसर्वेक्षणेन फसलाच्छादनस्य अधिकं सटीकं सुव्यवस्थितं च दत्तांशं प्राप्तुं शक्यते। अनेन ऋतुवारं फसलवारं च आच्छादनस्य आकलनं कर्तुं शक्यते तथा कृषिक्षेत्रे उत्पादनस्य उत्पादकतायाः च पूर्वानुमाने अपि सहायता भविष्यति।
तेन उक्तं यत् डिजिटलक्रॉपसर्वेक्षणं समयबद्धतया गुणवत्तापूर्णरीत्या च पूर्णं कर्तुं राज्यस्य सर्वेषु जनपदेषु कृषिसमन्वयकाः, प्रखण्ड-तकनीकीप्रबन्धकाः, सहायक-तकनीकीप्रबन्धकाः तथा कृषकपरामर्शदातारः सक्रियतया कार्यं कुर्वन्ति। सर्वेक्षणस्य गुणवत्तां सुनिश्चितं कर्तुं मुख्यालयस्तरीयैः अधिकारिभिः नियमितरूपेण निरीक्षणं क्रियते। जनपदेषु आकस्मिकक्षेत्रभ्रमणेन सह दैनिकसाप्ताहिकप्रगतिविवरणानां माध्यमेन सर्वेक्षणकार्यस्य निरन्तरं समीक्षां क्रियते।
मन्त्री सिन्हा उक्तवान् यत् डिजिटलक्रॉपसर्वेक्षणाय मास्टरट्रेनर् इत्येभ्यः आवश्यकं प्रशिक्षणं प्रदत्तम् अस्ति। प्रशिक्षितैः मास्टरट्रेनर् इत्येभिः क्षेत्रस्तरे सर्वेक्षणसम्बद्धेभ्यः कर्मिभ्यः तकनीकीमार्गदर्शनं प्रदीयते, येन सर्वेक्षणस्य कार्यं सटीकतया पारदर्शितया समयबद्धतया च पूर्णं कर्तुं शक्येत।
तेन उक्तं यत् डिजिटलक्रॉपसर्वेक्षणेन प्राप्ताः दत्तांशाः बिहारस्य कृषिक्षेत्राय विश्वसनीयदत्तांशकोशस्य निर्माणे महत्त्वपूर्णां भूमिकां निर्वहिष्यन्ति। एतेषां दत्तांशानां उपयोगः फसलबीमायाः, कृषिनिवेशसामग्रीणाम् आवश्यकतायाः आकलनस्य, फसलविपणनस्य भण्डारणप्रबन्धनस्य च तथा कृषकेभ्यः शासकीययोजनानां सेवासु च अधिकं लक्षितप्रभाविरूपेण प्रापणाय कर्तुं शक्यते।
सिन्हा उक्तवान् यत् डिजिटलक्रॉपसर्वेक्षणं कृषिक्षेत्रे निर्णयग्रहणप्रक्रियायाः अधिकं दत्तांशाधारितां प्रभाविनीं च कर्तुं दिशि महत्त्वपूर्णः उपक्रमः अस्ति। डिजिटलदत्तांशस्य आधारेण कृषियोजनानां निर्माणे क्रियान्वयने च भूमिस्तरीयवास्तविकतानां सम्यग् समावेशः कर्तुं शक्यते तथा उपलब्धसंसाधनानाम् अधिकप्रभाविणः उपयोगस्य सुनिश्चितीकरणे सहायता भविष्यति।
तेन उक्तं यत् डिजिटलक्रॉपसर्वेक्षणस्य माध्यमेन उपलब्धाः सटीकाः विश्वसनीयाः च दत्तांशाः कृषिविभागाय फसलानां स्थितेः श्रेष्ठनिरीक्षणे तथा कृषिक्षेत्रसम्बद्धानां योजनानां अधिकप्रभाविणः क्रियान्वयने सहायता करिष्यन्ति। विभागस्य लक्ष्यं आधुनिकप्रौद्योगिक्याः माध्यमेन बिहारस्य कृषिव्यवस्थां अधिकपारदर्शिनीं प्रौद्योगिकीसमर्थां कृषककेन्द्रितां च कर्तुम् अस्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani