Enter your Email Address to subscribe to our newsletters

गुवाहाटी, १ सेप्टेम्बरमासः (हि.स.)। सशस्त्रसीमाबलस्य (एसएसबी) प्रथम-वाहिनी, सोनापुरे स्वस्य ५९तमस्थापना-दिवसस्य अवसरे राष्ट्रं प्रति उत्कृष्टसेवायै, समर्पणाय योगदानाय च प्रतिष्ठितेन ‘सर्वोत्तमसेवासम्मानेन’ सम्मानिता।
प्रथमवाहिनी-एसएसबी, सोनापुरस्य पक्षतः द्वितीय-समादेशाधिकारी ख. इबोचौबासिंहेन एतत् सम्मानं स्वीकृतम्। सम्मानसमारोहः रिपब्लिक-नॉर्थ-ईस्ट्-संस्थया यूएसटीएम्-स्थिते एनकेसी-सभागारे आयोजितः आसीत्।
एतत् सम्मानं प्रथमवाहिन्याः अधिकारिणां सैनिकानां च कर्तव्यनिष्ठायाः, व्यावसायिकदक्षतायाः तथा राष्ट्रसेवायै समर्पणस्य च मान्यतां प्रददाति। सम्मान-प्राप्त्या सम्पूर्णे प्रथमवाहिनी-एसएसबी-परिवारे गौरवस्य उत्साहस्य च वातावरणं वर्तते।
अनेन सम्मानेन बलस्य सर्वे अधिकारिणः सैनिकाश्च राष्ट्रसेवायां अधिकसमर्पणेन, अनुशासनेन तथा व्यावसायिक-प्रतिबद्धतया कार्यं कर्तुं प्रेरिताः सन्ति।
Hindusthan Samachar / Divya Ranjan