Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०१ सेप्टेम्बरमासः (हि.स.)। केन्द्रीयकृषिकृषककल्याणग्रामीणविकासमन्त्रिणा शिवराजसिंहचौहानेन उक्तं यत् कृषकाः अस्माकं देशस्य आत्मा अर्थव्यवस्थायाः च मेरुदण्डाः सन्ति। केन्द्रसर्वकारः राज्यसर्वकारैः सह ‘भारतदलम्’ इव मिलित्वा कार्यं कुर्वन् अस्ति, येन प्रत्येकं क्षेत्रं प्रति जलम्, उन्नतबीजानि, यान्त्रीकरणं आधुनिकाः अङ्कीयसुविधाश्च प्राप्नुयुः।
केन्द्रीयकृषिमन्त्री चौहानः मङ्गलवासरे प्रधानमन्त्रिणः नरेन्द्रमोदिनः ‘स्वावलम्बि-समृद्धकृषकः’ इति दृष्टिकोणं शीघ्रं कार्यरूपे परिणेतुम् आयोज्यमानस्य अभियानस्य अन्तर्गतं मन्त्रालये दूरदृश्यसम्पर्कमाध्यमेन पञ्चानां राज्याना—उत्तराखण्डम्, आन्ध्रप्रदेशः, ओडिशा, तमिलनाडु त्रिपुरा च—कृषिमन्त्रिभिः वरिष्ठाधिकारिभिश्च सह उच्चस्तरीयां समीक्षासभां कुर्वन् आसीत्।
कृषिमन्त्रिणा सर्वकारस्य कृषककल्याण-सङ्कल्पस्य अन्तर्गतं पञ्चभ्यः राज्येभ्यः कृषिविकासाय १२८३ कोटिरूप्य-काधिकानां द्वितीयस्य ‘मदर सैन्क्शन’ इति वित्तीयानुमोदनस्य विमोचनं कृतम्। ‘प्रधानमन्त्री-आरकेवीवाई’ तथा ‘कृषोन्न-तियोजना’ इत्येतयोः अन्तर्गतं आधुनिककृषेः कृषकसशक्तीकरणस्य च नूतनां गतिं दातुं एतेभ्यः राज्येभ्यः १२८३.११ कोटिरूप्यकाणां धनराशिरपि स्वीकृता।
तेन उक्तं यत् कृषकाः अस्माकं देशस्य आत्मा अर्थव्यवस्थायाः च मेरुदण्डाः सन्ति। केन्द्रसर्वकारः राज्यसर्वकारैः सह ‘भारतदलम्’ इव मिलित्वा कार्यं कुर्वन् अस्ति, येन प्रत्येकं क्षेत्रं प्रति जलम्, उन्नतबीजानि, यान्त्रीकरणं आधुनिकाः अङ्कीयसुविधाश्च प्राप्नुयुः। तेन राज्यैः योजनानां कार्यान्वयने निधेः समुचितोपयोगे च व्यक्तं सन्तोषं कुर्वता उक्तं यत् कृषकाणां हिताय कस्यापि संसाधनस्य वित्तीयसहायतायाश्च न्यूनता न भविष्यति।
सभायां भारतसर्वकारस्य कृषिकृषक-कल्याणविभागस्य सचिवः अतीशचन्द्रः तथा सम्बद्धराज्यानां कृषिमन्त्रिणः वरिष्ठविभागीयाधिकारिणश्च उपस्थिताः आसन्।
राज्येभ्यः विमोचितस्य द्वितीयस्य वित्तीयानुमोदनस्य विवरणम्
आन्ध्रप्रदेशः — ४०९.४० कोटिरूप्यकाणि:आन्ध्रप्रदेशाय प्रधानमन्त्री-आरकेवीवाई योजनायाः अन्तर्गतं २९६.०९ कोटिरूप्यकाणि तथा कृषोन्नतियोजनायाः अन्तर्गतं ११३.३१ कोटिरूप्यकाणि, एवं समग्रतः ४०९.४० कोटिरूप्यकाणां द्वितीयकिस्तस्य अनुमोदनं कृतम्। सभायां राज्यस्य कृषिमन्त्री श्री किञ्जरापु अच्चेन्नायडुः उपस्थितः आसीत्। केन्द्रीयमन्त्रिणा शिवराजसिंहेन राज्यस्य ‘प्रत्येकं बिन्दौ अधिकं सस्यम्’ इति कार्यक्रमे कृषियान्त्रीकरणे च उत्कृष्टप्रदर्शनस्य प्रशंसा कृता।
तमिलनाडुः — ३५५.८८ कोटिरूप्यकाणि:तमिलनाडुराज्याय समग्रतः ३५५.८८ कोटिरूप्यकाणां धनराशिः विमोचिता। अस्यां प्रधानमन्त्री-आरकेवीवाई योजनायाः २५१.७९ कोटिरूप्यकाणि तथा कृषोन्नतियोजनायाः १०४.०९ कोटि-रूप्यकाणि अन्तर्भवन्ति। सभायां तमिलनाडोः कृषिकृषककल्याणमन्त्री तिरु. आर. विनोथः उपस्थितः आसीत्। राज्ये सूक्ष्मसिञ्चनस्य तिलहनानां च उत्पादनक्षेत्रे क्रियमाणानां कार्याणां उल्लेखः कृतः।
ओडिशा — २१९.६५ कोटिरूप्यकाणि:ओडिशाराज्याय २१९.६५ कोटिरूप्यकाणाम् अनुमोदनं कृतम्। अस्मिन् प्रधानमन्त्री-आरकेवीवाई योजनायाः ११७.९४ कोटिरूप्यकाणि तथा कृषोन्नतियोजनायाः १०१.७१ कोटिरूप्यकाणि सन्ति। समीक्षा-सभायाम् ओडिशायाः उपमुख्यमन्त्री श्री कनकवर्धनसिंहदेवः भागं गृहीतवान्। राज्येन कृषियान्त्रीकरणे कृषिविस्तारे च निधेः प्रभाविप्रयोगस्य प्रशंसा प्राप्ता।
उत्तराखण्डः — १०६.६७ कोटिरूप्यकाणि:पर्वतीयाय उत्तराखण्डराज्याय कृष्यधो-संरचनायाः प्राकृतिककृषेः च प्रोत्साहनाय १०६.६७ कोटिरूप्यकाणि विमोचितानि। तेषु प्रधानमन्त्री-आरकेवी-वाई योजनायाः ६५.७८ कोटिरूप्यकाणि तथा कृषोन्नतियोजनायाः ४०.८९ कोटिरूप्यकाणि सन्ति। सभायां उत्तराखण्डस्य कृषिमन्त्री गणेशजोशी उपस्थितः आसीत्। राज्येन परम्परागत-कृषिविकासयोजनायाम् उद्यानकृषौ च उल्लेखनीया प्रगतिः प्रस्तुता।
त्रिपुरा — ९१.५१ कोटिरूप्यकाणि:पूर्वोत्तरक्षेत्रस्य विकासाय प्राथमिकतां दत्त्वा त्रिपुराराज्याय ९१.५१ कोटिरूप्यकाणां धनराशेः अनुमोदनं कृतम्। अस्मिन् प्रधानमन्त्री-आरकेवीवाई योजनायाः ३६.५१ कोटिरूप्यकाणि तथा कृषोन्नति-योजनायाः ५५.०० कोटिरूप्यकाणि सन्ति। एतेन राज्ये वंश-अभियानस्य, तैलताड-अभियानस्य कृषियान्त्रीकरणस्य च सुदृढीकरणं भविष्यति।
केन्द्रीयकृषिमन्त्रिणा प्रदत्तया अस्य वित्तीयस्वीकृत्या राज्येषु सूक्ष्मसिञ्चनस्य, जलसंरक्षणस्य उत्पादनवृद्धेः च सह कृषियान्त्रीकरणस्य अन्तर्गतं लघुकृषकेभ्यः आधुनिकयन्त्रेषु अनुदानं प्राप्स्यते।
अङ्कीयकृषिः मृदास्वास्थ्यं च: मृदापरीक्षणं पारदर्शिकाः अङ्कीयसेवाश्च उपलब्धाः करिष्यन्ते।
दलहन-तिलहन-उद्यानकृषि-अभियानम्: सस्यानां विविधीकरणेन कृषकाणाम् आयवृद्धिः सुनिश्चिता भविष्यति। तेन सर्वेभ्यः राज्येभ्यः आग्रहः कृतः यत् ते एतां धनराशिं शीघ्रं कार्यरूपे परिणमयन्तु, येन प्रत्येकं पात्रमन्नदातृपर्यन्तं योजनानां लाभः समये एव प्राप्नुयात्।
Hindusthan Samachar / Divya Ranjan