Enter your Email Address to subscribe to our newsletters


उदयपुरम्, १ सेप्टेम्बरमासः (हि.स.)। उदयपुरजनपदस्य पीएम्-श्री-जवाहर-नवोदयविद्यालये, मावल्यां मङ्गलवासरे १७तम्या: राष्ट्रियशतरञ्जप्रतियोगितायाः भव्यः शुभारम्भः अभवत्। प्रतियोगितायां देशस्य विभिन्नेभ्यः नवोदयविद्यालयेभ्यः दशसंभागेभ्यः ३०० क्रीडकाः भागं गृह्णन्ति। तेषु १५० छात्राः १५० छात्र्यश्च सम्मिलिताः सन्ति। त्रिदिवसीया इयं प्रतियोगिता १ सेप्टेम्बरतः ३ सेप्टेम्बरपर्यन्तम् आयोज्यते। अस्याः समापनसमारोहः ३ सेप्टेम्बरे भविष्यति।
प्रतियोगितायाः उद्घाटनं नवोदयविद्यालय-समितेः संभागीयकार्यालयस्य जयपुरस्य उपायुक्तस्य लेखराजमीणाया: मुख्यातिथ्ये अभवत्, कार्यक्रमस्य अध्यक्षतां सहायकायुक्तः अजीतकुमारसिंहः अकरोत्। अन्ताराष्ट्रियशतरञ्जक्रीडिका कियाना-परिहारः कार्यक्रमस्य विशिष्टातिथि-रूपेण उपस्थितवती। अस्मिन् अवसरे नवोदयविद्यालयस्य कोटायाः प्राचार्यः रामकेशमीणः, नवोदयविद्यालयस्य गुरुग्रामस्य प्राचार्यः आर.के.पंवारः, नवोदयविद्यालयस्य चित्तौडगढस्य प्राचार्या उषाकिरणः तथा नवोदयविद्यालयस्य पाल्याः उपप्राचार्यः राजपालसिंहः इत्येतै: सह विभिन्नाः अधिकारिणः अतिथयश्च उपस्थिताः आसन्।
ध्वजारोहणेन मार्चपास्ट्-प्रदर्शनेन च शुभारम्भः
कार्यक्रमस्य प्रारम्भः मुख्यातिथिना उपायुक्तेन लेखराजमीणा इत्यनेन ध्वजारोहणेन अभवत्। ततः प्रतियोगितायां भागं ग्रहीतुं देशस्य विभिन्नेभ्यः संभागेभ्यः आगतैः छात्रछात्राणां दलैः अनुशासितं आकर्षकं च मार्चपास्ट्-प्रदर्शनं प्रस्तुतम्। विभिन्नासु गणवेषभूषासु सज्जिताः क्रीडकाः स्वस्वसंभागानां प्रतिनिधित्वं कुर्वन्तः एकतायाः, अनुशासनस्य, क्रीडा-भावनायाश्च परिचयं दत्तवन्तः।
मार्चपास्ट्-प्रदर्शनस्य अनन्तरं विद्यालयस्य छात्राभिः मनोहारिण्यः विविध-वर्णीयाः सांस्कृतिकप्रस्तुतयः प्रदर्शिताः, येन समारोहस्थले उत्साहस्य उमङ्गस्य च वातावरणं निर्मितम्। तेन सह नवोदयविद्यालयस्य चित्तौडगढस्य राजसमन्दस्य च छात्राभिरपि नृत्यप्रस्तुतयः प्रदत्ताः। सांस्कृतिककार्यक्रमान् उपस्थिताः अतिथयः क्रीडकाः च भृशं प्रशंसितवन्तः।
दशसंभागेभ्यः ३०० क्रीडकाः भागं गृह्णन्ति
विद्यालयस्य प्राचार्यः घनश्याममीणा स्वागतसम्बोधने प्रतियोगितायाः विषये सूचनां प्रदाय अवदत् यत् १७तम्यां राष्ट्रियशतरञ्जप्रतियोगितायां देशस्य दशसंभागेभ्यः ३०० क्रीडकाः भागं गृह्णन्ति। प्रतियोगिता १ सेप्टेम्बरतः प्रारभ्य ३ सेप्टेम्बरपर्यन्तं प्रचलिष्यति। सः अवदत् यत् ३ सेप्टेम्बरमासे प्रतियोगितायाः समापनसमारोहः आयोजयिष्यते। सः देशस्य विभिन्नेभ्यः भागेभ्यः आगतानां क्रीडकानाम् अधिकारिणां च मावलीविद्यालयपरिवारस्य पक्षतः स्वागतं कृतवान्।
मुख्यातिथिः लेखराजमीणा ‘भारत मातायाः जयः’ इति उद्घोषेण स्वसम्बोधनस्य प्रारम्भम् अकरोत्। सः दशसंभागेभ्यः आगतानां प्रबन्धकानां, प्रशिक्षकाणां क्रीडकाणां च स्वागतं कृत्वा प्रतियोगितायाः सफलायोजनाय शुभकामनाः प्रदत्तवान्।
सः समारोहस्थले प्रस्तुतानां सांस्कृतिक-कार्यक्रमाणां प्रशंसां कुर्वन् विद्यार्थिनां प्रतिभायाः परिश्रमस्य च प्रशंसां कृतवान्। विशिष्टातिथिरूपेण उपस्थितायाः अन्ता-राष्ट्रियशतरञ्जक्रीडिकायाः कियानापरिहारस्य उल्लेखं कुर्वन् सः तां प्रतिभागिनां कृते प्रेरणादायिनीम् इति कथितवान् तथा विद्यार्थिभ्यः तस्याः संघर्षात्, प्रतिभायाः उपलब्धिभ्यश्च प्रेरणां ग्रहीतुं आह्वानं कृतवान्।
उपायुक्तः मीणा अवदत् यत् कस्यापि कार्यस्य गुणवत्तापूर्वकं सम्पादनं नवोदयविद्यालयस्य मूलपरिचयः अस्ति। विभिन्नेभ्यः संभागेभ्यः आगतानां विद्यार्थिनां विभिन्नगणवेषाणाम् उदाहरणं दत्त्वा सः अवदत् यत् यथा पुष्पगुच्छे विभिन्नवर्णाः विभिन्नप्रकाराश्च पुष्पाणि सम्मिल्य तस्य सौन्दर्यं वर्धयन्ति, तथैव विभिन्नेभ्यः क्षेत्रेभ्यः आगताः विद्यार्थिन: नवोदयस्य विविधतायाः शक्तेश्च प्रतीकाः सन्ति।
सः विद्यार्थिभ्यः क्रीडां केवलं प्रतियोगितारूपेण न, अपितु अनुशासनस्य, एकाग्रतायाः, निर्णयक्षमतायाः, धैर्यस्य आत्मविश्वासस्य च विकासस्य माध्यम-रूपेण स्वीकरणस्य विषये अवदत्। सः क्रीडकेभ्यः स्वक्षमतायाः सीमाभ्यः उपरि उत्थाय उत्तमप्रदर्शनं कर्तुं तथा क्रीडाभावनया प्रतियोगितायां भागं ग्रहीतुं सन्देशं दत्तवान्।
मुख्यातिथिना प्रतियोगितायाः आतिथ्यं कुर्वतः पीएम्-श्री-जवाहरनवोदय-विद्यालयस्य मावली इत्यस्य प्राचार्यस्य घनश्याममीणा इत्यस्य तस्य सम्पूर्णस्य दलस्य च कृतानां सज्जतानां व्यवस्थायाश्च प्रशंसा कृता। सः अवदत् यत् एतादृशस्य बृहद्राष्ट्रियस्तरीयस्य आयोजनस्य सुव्यवस्थितरूपेण सम्पादनं दलकार्यस्य उत्तमप्रबन्धनस्य च परिणामः अस्ति।
समारोहस्य समये अतिथिभिः क्रीडकानाम् उत्साहवर्धनं कृत्वा तेभ्यः प्रतियोगितायै शुभकामनाः प्रदत्ताः। उद्घाटनसमारोहेण विद्यार्थिषु उत्साहस्य प्रतिस्पर्धाभावनायाश्च सञ्चारः अभवत्। अधुना आगामिद्वयोः दिवसयोः क्रीडकाः शतरञ्जस्य पटले स्वरणनीतिं, एकाग्रतां क्रीडाकौशलं च प्रदर्शयिष्यन्ति।
कार्यक्रमस्य सञ्चालनम् अङ्कुरमोदी, निवेदिताचन्द्रावत् तथा परमानन्दभट्टः अकुर्वन्। उद्घाटनसमारोहे विद्यालय-परिवारस्य सदस्यैः सह प्रतियोगितायां भागं गृह्यमाणानां सर्वेषां संभागानां क्रीडकाः, अधिकारिणः शिक्षकाः च उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan