Enter your Email Address to subscribe to our newsletters

मैनपुरी, ०१ सेप्टेम्बरमासः (हि.स.)। उत्तरप्रदेशस्य मैनपुरीजनपदात् खाटूश्यामस्य वृन्दावनस्य च दर्शनार्थं गतैः श्रद्धालुभिः पूर्णं मैक्स-पिकअप-वाहनं हरियाणाप्रदेशस्य पलवलनगरे दुर्घटना-ग्रस्तम् अभवत्। अस्यां दुर्घटनायां पिकअपवाहने स्थिताः षट् श्रद्धालवः घटनास्थले एव मृत्युम् उपगताः, यदा चतुर्दश श्रद्धालवः आहताः अभवन्।
मुख्यमन्त्रिणा योगी-आदित्यनाथेन अस्यां घटनायां दुःखं प्रकटितम् तथा च हरियाणासर्वकारेण सह आहतानां समुचितचिकित्साविषये वार्ता कृता। तेन अधिकारिणः मृतानां शरीराणि तेषां परिजनानां समीपं प्रापयितुं निर्देशाः अपि प्रदत्ताः।
मैनपुरीजनपदस्य किशनीप्रदेशात् श्रद्धालूनां समूहः मैक्स-पिकअपवाहने आरुह्य धार्मिकयात्रायै प्रस्थितः आसीत्। सोमवासरसन्ध्यायां राजस्थानस्य खाटू-श्यामस्य सालासरबालाजीमन्दिरस्य च दर्शनं कृत्वा सर्वे वृन्दावनं प्रति प्रस्थितवन्तः आसन्। अस्मिन्नेव क्रमे मङ्गलवासरस्य प्रातःकाले पलवलनगरे केएमपी-तीव्रमार्गे तेषां वाहनं मार्गपार्श्वे स्थितेन ट्रकयानेन सह अभिहतम्।
दुर्घटनायां पिकअपवाहने स्थिताः मैनपुरीनिवासिनः विजयसिंहः, राजकुमारः, रेशमादेवी, कमलादेवी, सुधा तथा महेशः मृताः। अपरतः सुनीलः, श्वेतायादवः, बीरेशः, उमेदः, विनोदकुमारः, सरला, रूबी, रामसेवकः, रविः, वाणी, वीनू, तन्नू, रेखा तथा गोरादेवी इत्यादयः चतुर्दश जनाः आहताः सन्ति।
आरक्षकविभागस्य अनुसारं आहताः पलवलनगरे चिकित्सालये प्रवेशिताः सन्ति। मृतानां शरीराणि जनपद-चिकित्सालयस्य शवागारे स्थापितानि सन्ति तथा च अस्य प्रकरणस्य अन्वेषणकार्यं प्रारब्धम् अस्ति।
हिन्दुस्थान समाचार / Divya Ranjan