लोकसभाध्यक्षः अन्ये च जैन संत तरुण सागरस्य पुण्यतिथौ अददुः श्रद्धांजलिम्
नव दिल्ली, 01 सितम्बरमासः (हि.स.)। लोकसभाध्यक्षः ओमबिरला इत्यादयः अनेके नेतारः मङ्गलवासरे जैनसन्तस्य तरुणसागरस्य पुण्यतिथौ तस्मै भावपूर्णां श्रद्धाञ्जलिं समर्पितवन्तः। बिरला एक्स इत्यत्र लिखितवान्— “अहं राष्ट्रसन्तस्य तरुणसागरमहाराजस्य पुण्यतिथौ
प्रतीकात्मक


नव दिल्ली, 01 सितम्बरमासः (हि.स.)।

लोकसभाध्यक्षः ओमबिरला इत्यादयः अनेके नेतारः मङ्गलवासरे जैनसन्तस्य तरुणसागरस्य पुण्यतिथौ तस्मै भावपूर्णां श्रद्धाञ्जलिं समर्पितवन्तः।

बिरला एक्स इत्यत्र लिखितवान्— “अहं राष्ट्रसन्तस्य तरुणसागरमहाराजस्य पुण्यतिथौ तं सादरं नमनं करोमि। स्वकीयैः तेजस्विभिः, निर्भीकैः प्रेरणादायकैश्च प्रवचनैः मुनिना प्रदर्शितं यत् धर्मः सदाचरणस्य, आत्मसंयमस्य, मानवकल्याणस्य च मार्गः अस्ति। तेन भगवान् महावीरस्य अहिंसा, सत्य, अपरिग्रह, करुणा, आत्मशुद्धिश्चेति सन्देशः समाजस्य व्यापकवर्गेभ्यः अत्यन्तं सरलया प्रभावशालिन्या च भाषया प्रेषितः। तरुणसागरस्य वचनेषु न केवलम् आध्यात्मिकचेतना आसीत्, अपितु सामाजिकजागरूकतायाः सशक्तः स्वरः अपि आसीत्। तेन मानवतायाः बाह्याडम्बरात् उपरि उत्थाय स्वकीयानां विचाराणां, व्यवहारस्य, कर्मणां च शुद्धीकरणाय प्रेरणा प्रदत्ता। तस्य विचाराः अद्यापि अस्मान् संयमपूर्णं जीवनं यापयितुं, नैतिकमूल्यानि संरक्षितुं, सद्भावनां वर्धयितुं, मानवतायाः मार्गे च प्रवर्तितुं प्रेरयन्ति।”

केन्द्रीयकृषि-कृषककल्याणमन्त्री शिवराजसिंहचौहानः उक्तवान् यत् तरुणसागरेण स्वकीयैः मर्मस्पर्शिभिः प्रवचनैः जीवनयापनस्य मधुरः सन्देशः प्रदत्तः। तस्य तपस्विनः जीवनम्, तस्य शिक्षाः, कल्याणकारी विचाराश्च आगामिषु युगेषु मानवतायाः हितं वर्धयिष्यन्ति तथा सर्वान् सदाचारस्य मार्गे प्रवर्तितुं प्रेरयिष्यन्ति।

केन्द्रीयवस्त्रोद्योगमन्त्री गिरिराजसिंहः उक्तवान् यत् तरुणसागरेण स्वकीयैः ओजस्विभिः विचारैः शिक्षाभिश्च समाजाय सत्यस्य, धर्मस्य, नैतिकमूल्यानां च मार्गः प्रदर्शितः। तस्य अमराः विचाराः सदैव मानवतां जनकल्याणस्य करुणायाश्च मार्गे प्रेरयिष्यन्ति।

केन्द्रीयावास-नगरकार्याणां मन्त्री मनोहरलालः उक्तवान् यत् सत्यस्य, अहिंसायाः, करुणायाश्च प्रतिमूर्तिः महान् सन्तः दार्शनिकश्च श्रद्धेयः जैनमुनिः आसीत्। तस्य ओजस्विभिः प्रवचनैः जीवनदर्शनेन च जनसामान्यः सत्यस्य सदाचारस्य च मार्गे प्रवर्तितुं प्रेरितः। तस्य शिक्षाः सदैव सर्वेषां जीवनं प्रकाशयिष्यन्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani