वैश्विकप्रभावस्य मध्येऽपि भारतीयार्थव्यवस्था दीप्तिमती अभवत् - सञ्जयशर्मा
धर्मशाला, ०१ सेप्टेम्बरमासः (हि.स.)। केन्द्रीयमन्त्रालयेन प्रकाशितानां वित्तीयवर्षस्य २०२६-२७ प्रथमत्रैमासिकस्य (अप्रैल-जून) विवरणानाम् आधारे भारतीयजनतापक्षस्य प्रदेशप्रवक्ता सञ्जयशर्मा स्वप्रतिक्रियां प्रदाय एतत् देशस्य सुदृढायाः आर्थिकाधारसंरचनाय
88e69415be4c573651e77b4ec1476bd6_1671939130.jpg


धर्मशाला, ०१ सेप्टेम्बरमासः (हि.स.)। केन्द्रीयमन्त्रालयेन प्रकाशितानां वित्तीयवर्षस्य २०२६-२७ प्रथमत्रैमासिकस्य (अप्रैल-जून) विवरणानाम् आधारे भारतीयजनतापक्षस्य प्रदेशप्रवक्ता सञ्जयशर्मा स्वप्रतिक्रियां प्रदाय एतत् देशस्य सुदृढायाः आर्थिकाधारसंरचनायाः प्रतीकम् इति उक्तवान्।

मङ्गलवासरे प्रसारिते पत्रकार-वक्तव्ये प्रदेशप्रवक्ता सञ्जयशर्मा उक्तवान् यत् वैश्विकानिश्चिततानां पश्चिमएशिया-सङ्कटस्य च विद्यमानत्वेऽपि भारतीयार्थ-व्यवस्थया पुनरेकवारं विश्वं विस्मितं कृतम्। भारतीय-रिजर्वबैङ्क इत्यस्य मौद्रिकनीतिसमित्या प्रथम-त्रैमासिकाय ७ प्रतिशतवृद्धिदरः अनुमानितः आसीत्, किन्तु देशेन ७.८ प्रतिशतस्य उत्कृष्टा वास्तविकजीडीपी-वृद्धिः प्राप्य सर्वेषाम् आर्थिकविशेषज्ञानाम् अनुमानानि अतिक्रान्तानि।

एतेन सह १०.३ प्रतिशतस्य नाममात्रजीडीपी-वृद्धिः तथा ८.२ प्रतिशतस्य सकलमूल्यवर्धनस्य वृद्धिः एतत् प्रमाणयति यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः कुशलनेतृत्वे देशस्य आर्थिकसंरचना अत्यन्तं सुदृढा अस्ति। भारतीय-रिजर्वबैङ्क इत्यस्य ७ प्रतिशतस्य अनुमानस्य अपेक्षया ७.८ प्रतिशतस्य वृद्धिदरम् अभिलेख्य भारतदेशेन स्वस्य सुदृढा आर्थिकक्षमता प्रदर्शिता।

तेन उक्तं यत् वैश्विकन्यूनतायाः प्रभावस्य च विद्यमानत्वेऽपि, अपक्वतैलस्य मूल्येषु आरोहावरोहाणां तथा वैश्विक-आपूर्तिशृङ्खलायाः प्रभावस्य अनन्तरमपि भारतदेशः विश्वस्य सर्वाधिकवेगेन वर्धमाना प्रमुखार्थव्यवस्था एव अस्ति। केन्द्रीय-सर्वकारस्य पूंजीगतव्ययस्य १८.६ प्रतिशतवृद्ध्या विनिर्माणक्षेत्रस्य च ९.२ प्रतिशतवृद्ध्या देशे आधारभूतसंरचनायाः तीव्रविकासः भवति तथा च नूतनाः रोजगारावसराः निर्मीयन्ते।

सञ्जयशर्मा उक्तवान् यत् प्रधानमन्त्रिणः शब्दानुसारं निराशावादिनः पुनरेकवारं विफलाः अभवन् तथा च भारतस्य सामूहिकया आर्थिकशक्त्या एतत् सिद्धं कृतं यत् देशः आर्थिकसमृद्धेः नूतनशिखराणि प्रति तीव्रगतिना अग्रसरः भवति।

हिन्दुस्थान समाचार / Divya Ranjan