Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 01 सितंबरमासः (हि.स.)। दिल्लीविधानसभायाः प्रथमाध्यक्षस्य स्वर्गीयस्य चरतीलालगोयलस्य नवतिनवत्यधिकजन्मजयन्त्याः अवसरे नवदेहल्यां विभिन्नाः कार्यक्रमाः आयोजिताः। अस्मिन् अवसरे केन्द्रीयमन्त्री गिरिराजसिंहः, मुख्यमन्त्री रेखागुप्ता, विधानसभाध्यक्षः विजेन्द्रगुप्तः, महापौरः प्रवेशवाही, लोकनिर्माणविभागस्य मन्त्री प्रवेशवर्मा तथा मन्त्री मनजीन्दर सिंहसिरसा च तं श्रद्धापूर्वकं नमनं कृत्वा तस्य सार्वजनिकजीवनं स्मृतवन्तः।
केन्द्रीयमन्त्री गिरिराजसिंहः ‘चरतीलालगोयल हेरिटेज पार्क’ इति स्थले आयोजिते कार्यक्रमे सम्मिलितः। सः अवदत् यत् आपत्कालस्य समये चरतीलालगोयलेन एकोनविंशतिमासपर्यन्तं कारागारस्य यातना सोढा। निष्पक्षतया दृढसिद्धान्तैश्च तेन दिल्लीविधानसभायाः संसदीयपरम्पराणां सुदृढः आधारः स्थापितः। गिरिराजसिंहः अवदत् यत् जनसेवायै, अनुशासनाय राष्ट्रनिष्ठायै च समर्पितं तस्य जीवनं सर्वेषाम् प्रेरणादायकम् अस्ति।
मुख्यमन्त्री रेखागुप्ता चरतीलालगोयलं श्रद्धाञ्जलिं समर्पयन्ती अवदत् यत् सार्वजनिकजीवने तस्य सरलता, शुचिता, कर्तव्यनिष्ठा समाजस्य प्रति समर्पणं च आदर्शं स्थापितवन्तः। सा अवदत् यत् दिल्लीस्य लोकतान्त्रिकजीवने जनसेवायाः परम्परायां च चरतीलालगोयलस्य योगदानं सदैव स्मरणीयं भविष्यति।
दिल्लीविधानसभाध्यक्षः विजेन्द्रगुप्तः अवदत् यत् प्रथमाध्यक्षरूपेण चरतीलालगोयलेन सदनस्य कार्यवाही गरिम्णा मर्यादया च सञ्चालिता तथा दिल्लीविधानसभायाः संसदीयपरम्पराणां सुदृढः आधारः प्रदत्तः। तस्य निष्पक्षकार्यशैली सदनसञ्चालनस्य अनुभवश्च अद्यापि प्रेरणां प्रददाति।
दिल्लीस्य महापौरः प्रवेशवाही चरतीलालगोयलं कुशलराजनेता निर्भीकजनसेवी च वर्णयित्वा सार्वजनिकजीवने दिल्लीस्य विकासाय तेन कृतं योगदानं स्मृतवान्।
लोकनिर्माणविभागस्य मन्त्री प्रवेशवर्मा तं सरलतायाः साद्गुणस्य च प्रतीकं वर्णयित्वा अवदत् यत् जनसेवायाः प्रति तस्य प्रतिबद्धता राष्ट्रहिते च तेन कृतानि कार्याणि भाविपीढीनां प्रेरणास्रोतांसि भविष्यन्ति।
मन्त्री मनजीन्दर सिंहसिरसा अवदत् यत् दिल्लीमध्ये भाजपादलस्य सङ्गठनं सुदृढं कर्तुं दलस्य विचारधारां च जनजनं प्रति प्रापयितुं चरतीलालगोयलस्य योगदानम् अविस्मरणीयम् आसीत्। सः अवदत् यत् राष्ट्रहिते, जनसेवायां सङ्गठनस्य प्रति च गोयलस्य निष्ठा कार्यकर्तॄणां कृते सदैव प्रेरणास्रोतः भविष्यति।
---------------
Hindusthan Samachar / Dheeraj Maithani