भारतं पुनः विश्व गुरुर्भवेत् तदर्थं यूनां महत्वपूर्णा भूमिका : पदमः
मुरादाबादम्, 01 सितम्बरमासः (हि.स.)। राष्ट्रीयस्वयंसेवकसङ्घस्य महानगरशाखया मङ्गलवासरे महाराजाअग्रसेन-अन्तर्महाविद्यालये युवा-विद्यार्थिसंवादकार्यक्रमः आयोजितः। कार्यक्रमे उपस्थितान् छात्रान् राष्ट्रीयस्वयंसेवकसङ्घस्य क्षेत्रीयप्रचारप्रमुखः पद्मः मु
महाराजा अग्रसेन इंटर कालेज में युवा विद्यार्थी संवाद कार्यक्रम में मंचासीन आरएसएस के क्षेत्रीय प्रचार प्रमुख व अन्य अतिथि।


मुरादाबादम्, 01 सितम्बरमासः (हि.स.)। राष्ट्रीयस्वयंसेवकसङ्घस्य महानगरशाखया मङ्गलवासरे महाराजाअग्रसेन-अन्तर्महाविद्यालये युवा-विद्यार्थिसंवादकार्यक्रमः आयोजितः। कार्यक्रमे उपस्थितान् छात्रान् राष्ट्रीयस्वयंसेवकसङ्घस्य क्षेत्रीयप्रचारप्रमुखः पद्मः मुख्यवक्तृरूपेण सम्बोधितवान्।

सः अवदत् यत् सर्वप्रथमं भवतां कर्तव्यं स्वमातापित्रोः प्रति ऋणं परिशोधयितुम् अस्ति। द्वितीयं कर्तव्यं मातृभूमेः ऋणस्य परिशोधनम् अस्ति। भारतं कीदृशं निर्मातव्यम् इति निर्णयः युवाभिः एव करणीयः। भारतं पूर्वं विश्वगुरुः आसीत्। भवदृशैः युवभिः भारतं पुनः विश्वगुरुत्वे प्रतिष्ठापनीयम् अस्ति। अस्मिन् कार्ये युवानां महत्त्वपूर्णा भूमिका अस्ति।

कार्यक्रमे विशिष्टातिथिरूपेण उत्तरप्रदेशराज्यबालाधिकारआयोगस्य पूर्वाध्यक्षः डॉ. विशेषकुमारगुप्तः, राष्ट्रीयस्वयंसेवकसङ्घस्य मुरादाबादविभागस्य विभागप्रचारकः ब्रजमोहनः, महानगरकार्यवाहः विपिनः, धवलदीक्षितः, गौरवअग्रवालः गोपालहरिश्च उपस्थिताः आसन्।

कार्यक्रमस्य अध्यक्षतां प्रधानाचार्यः अरुणकुमारशुक्लः कृतवान् तथा सञ्चालनं मेजरराजीवढलः कृतवान्। अस्मिन् अवसरे सञ्जयकुमारः, अनुरागशुक्लः, आशुतोषगुप्तः, दीपेन्द्रकुमारः, सुरेशकुमारः, ओंकारसिंहः, सलामतअली, आदित्यकुमारः, राजपालसिंहः, आशीषकुमारः सुखलालश्च विशेषयोगदानं दत्तवन्तः।

---------------

Hindusthan Samachar / Dheeraj Maithani