Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०१ सेप्टेम्बरमासः (हि.स.)। प्रधानमन्त्रिणा नरेन्द्रमोदिना अप्रैल-जून २०२६ त्रैमासिकावधौ भारतस्य अर्थव्यवस्थायाः ७.८ प्रतिशतवृद्धौ देशवासिभ्यः अभिनन्दनं प्रदत्तम्। मङ्गलवासरे विकासस्य गतिं निरन्तरं स्थापयितुं स्वावलम्बनस्य स्वदेशीभावस्य च महत्त्वं प्रतिपाद्य जनान् तयोः प्रति विशेषतया प्रवृत्तान् भवितुम् आह्वानं कृतम्। अपि च जनाः अनावश्यकविदेशयात्राभ्यः, विदेशेषु विवाहसमारोहानुष्ठानात् तथा आवश्यकता न सति स्वर्णक्रयात् विरमन्तु इति तेन आग्रहः कृतः।
प्रधानमन्त्रिणा इन्स्टाग्राम-माध्यमेन प्रसारिते दृश्यमाध्यमसन्देशे उक्तं यत् विश्वं युद्धेषु निमग्नम् अस्ति। विश्वं विविधसङ्कटैः परिवृतम् अस्ति तथा च आपूर्तिशृङ्खलाः बाधिताः सन्ति। तथापि भारतदेशेन उत्तमा प्रगतिः कृता अस्ति। तेन उक्तं यत् कोविड्-१९ महामारीतः परं विश्वे स्थिरता नासीत्, तथापि भारतदेशः स्वनीतिनां, दृढसङ्कल्पानां जनशक्तेः च बलेन उत्तमं प्रदर्शनं कृतवान् अस्ति।मोदिना देशस्य प्रगतिविषये निराशां प्रसारयतः जनान् लक्ष्यं कृत्वा उक्तं यत् भारतदेशः तीव्रगतिना अग्रे प्रसरति। अपरतः देशस्य अन्तरेऽपि निराशायाः गर्ते निमग्नाः केचन जनाः सर्वत्र ‘मृषाप्रतिध्वनिम्’ प्रसारयितुं प्रवृत्ताः सन्ति। एतासां सर्वासां समस्यानां मध्येऽपि भारतदेशेन ७.८ प्रतिशतवृद्धिः प्राप्ता अस्ति।
प्रधानमन्त्रिणा उक्तं यत् अस्माभिः विकासस्य गतिः निरन्तरं स्थापनीया, एतदर्थं च अस्माभिः स्वावलम्बिभिः भवितव्यम्। तेन देशवासिनः ‘स्थानीय-वस्तूनां समर्थनम्’ इति भावनां अधिकं सुदृढीकर्तुं स्थानीयस्वदेशी-उत्पादेभ्यः च प्राथमिकतां दातुम् आहूताः। तेन उक्तं यत् यदि विदेशयात्रा केवलं पर्यटनार्थं क्रियते, तर्हि तस्मात् विरमितव्यम्। तथैव विदेशेषु विवाहसमारोहानुष्ठानादपि विरमितव्यम्। यावत् अत्यावश्यकता न भवति, तावत् स्वर्णमपि न क्रेतव्यम्।
मोदिना उक्तं यत् स्वदेशीभावे स्वावलम्बने च यावदधिकं बलं दीयते, तावदेव भारतस्य अर्थव्यवस्था अधिकं सुदृढा भविष्यति। तेन विश्वासः प्रकटितः यत् स्वातन्त्र्यस्य शतवर्षपूर्तिकाले देशस्य युववंशाय विकसितभारतं समर्पयितुं निर्धारितं लक्ष्यम् पूर्णं कर्तुं शक्यते।प्रधानमन्त्रिणा उक्तं यत् देशस्य प्रगतेः अनन्तरमपि केचन जनाः नकारात्मकतां मिथ्याप्रचारं च प्रसारयितुं प्रयतन्ते, किन्तु भारतदेशः निरन्तरम् अग्रे प्रसरति। देशवासिनां परिश्रमः सामूहिकप्रयत्नः च यूनां स्वप्नानां पूर्तौ महत्त्वपूर्णां भूमिकां निर्वक्ष्यति।
मोदिना उक्तं यत् अद्य क्रियमाणैः प्रयत्नैः देशस्य युवजनानाम् आशाः पूर्णाः भविष्यन्ति। तेन उक्तं यत् वयं अद्य स्वकठिनपरिश्रमेण युववंशस्य स्वप्नानि साकारं करिष्यामः। तेन नागरिकान् भारतस्य आर्थिकप्रगतौ योगदानं दातुमपि आह्वानं कृतम् तथा च उक्तं यत् सर्वकारस्य नीतयः सङ्कल्पाश्च सम्यक् दिशि प्रवर्तन्ते।मोदिना उक्तं यत् अस्माकं नीतिः समीचीना अस्ति, अस्माकम् इच्छा स्पष्टा अस्ति तथा च अद्य १४० कोटिदेशवासिनाम् एकीकृता शक्तिः देशं नूतनशिखराणि प्रति नयति।
Hindusthan Samachar / Divya Ranjan