Enter your Email Address to subscribe to our newsletters

मध्यप्रदेशस्य मुख्यमन्त्री डॉ मोहन यादवः कक्षाद्वादश्यां पञ्चसप्ततिप्रतिशतं ततो अधिकं वा प्राप्तवद्भ्यः विद्यार्थिभ्यः त्रिशतचतुश्चत्वारिंशदधिकत्रिंशत्कोटिरूप्यकाणां धनराशिं हस्तान्तरयिष्यति।
भोपालम् , १ सितम्बरमासः(हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ मोहन यादवः अद्य मङ्गलवासरे कक्षाद्वादश्यां प्रथमप्रयासे पञ्चसप्ततिप्रतिशतं ततो अधिकं वा प्राप्तवद्भ्यः प्रदेशस्य एकलक्षद्वाविंशतिसहस्रं मेधावीविद्यार्थिभ्यः संगणकयन्त्रं क्रेतुं पञ्चविंशतिसहस्ररूप्यकाणि धनराशिं हस्तान्तरयिष्यति।
जनसम्पर्काधिकारी सुनीलवर्मा इति सूचितवान् यत् विद्यार्थिभ्यः एषा धनराशिः भोपालस्थिते कुशाभाऊ ठाकरे अन्तर्राष्ट्रीयसम्मेलनकेन्द्रे आयोजिते संगणकयन्त्रक्रयणाय धनराशिवितरणकार्यक्रमे प्रदास्यते।
सः उक्तवान् यत् विद्यार्थिनः प्रोत्साहितुं तान् च अङ्कीयप्रौद्योगिक्या सह संयोजयितुं प्रदेशसर्वकारेण विद्यालयशिक्षाविभागस्य माध्यमेन प्रतिभाशालीविद्यार्थिप्रोत्साहनयोजना सञ्चाल्यते। अस्याः योजनायाः अन्तर्गतं कक्षाद्वादश्याः परीक्षायां प्रथमप्रयासे पञ्चसप्ततिप्रतिशतं ततो अधिकं वा प्राप्तवते प्रत्येकस्मै पात्रविद्यार्थिने संगणकयन्त्रक्रयणाय पञ्चविंशतिसहस्ररूप्यकाणां प्रोत्साहनराशिः प्रदीयते।
प्रदेशसर्वकारेण योजनायाः अन्तर्गतं अस्मिन् वर्षे प्रदेशस्य प्रायः एकलक्षद्वाविंशतिसहस्रं विद्यार्थिनः लाभान्विताः क्रियन्ते। प्रत्येकस्य विद्यार्थिनः खाताय पञ्चविंशतिसहस्ररूप्यकाणि हस्तान्तरितानि भविष्यन्ति। एवं विद्यार्थिभ्यः समग्ररूपेण त्रिशतचतुरधिकत्रिंशत्कोटिरूप्यकाणां पञ्चाशीतिलक्षरूप्यकाणां च अधिका धनराशिः हस्तान्तरिता भविष्यति।
उल्लेखनीयं यत् प्रदेशसर्वकारस्य एषा पहलः प्रदेशस्य मेधावीविद्यार्थिभ्यः उच्चशिक्षायै आवश्यकान् अङ्कीयसंसाधनान् उपलब्धान् कारयितुं तान् च आधुनिकप्रौद्योगिक्या सह संयोजयितुं महत्त्वपूर्णं पदक्षेपम् अस्ति। संगणकयन्त्रस्य माध्यमेन विद्यार्थिनः अन्तर्जालीयाध्ययनं, अङ्कीयशैक्षिकसामग्रीम्, ई शिक्षणं तथा अन्यान् प्राविधिकसंसाधनान् उपयुज्य स्वशिक्षां अधिकं समुन्नतां कर्तुं शक्नुवन्ति।
Hindusthan Samachar / Dheeraj Maithani