केन्द्रीयजलशक्तिमन्त्रिणा पाटिलेण सह मध्यप्रदेशस्य मुख्यमन्त्रिणः मिलनम्, राज्यसम्बद्धेषु महत्त्वपूर्णविषयेषु चर्चा
नवदिल्ली/भोपालम्, ०१ सेप्टेम्बरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः मङ्गलवासरे नवदिल्ली इत्यत्र प्रवाससमये केन्द्रीयजल-शक्तिमन्त्रिणा सी.आर. पाटिलेण सह सौजन्यसाक्षात्कारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्रिणा डॉ. यादवेन मध्यप्रदेश
केंद्रीय जल शक्ति मंत्री पाटिल को मुलाकात के दौरान पुष्प गुच्छ भेंट करते हुए मप्र के मुख्यमंत्री


केंद्रीय जल शक्ति मंत्री पाटिल से मुलाकात के दौरान चर्चा करते हुए मप्र के मुख्यमंत्री


नवदिल्ली/भोपालम्, ०१ सेप्टेम्बरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः मङ्गलवासरे नवदिल्ली इत्यत्र प्रवाससमये केन्द्रीयजल-शक्तिमन्त्रिणा सी.आर. पाटिलेण सह सौजन्यसाक्षात्कारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्रिणा डॉ. यादवेन मध्यप्रदेशसम्बद्धेषु विभिन्नेषु महत्त्वपूर्ण-विषयेषु केन्द्रीयमन्त्रिणा सह चर्चा कृता।

मुख्यमन्त्री डॉ. यादवः सामाजिकमाध्यमे ‘एक्स’ इत्यत्र सूचनां प्रदाय उक्तवान् यत् अद्य नवदिल्ली इत्यत्र केन्द्रीयजल-शक्तिमन्त्रिणा पाटिलेण सह सौजन्य-साक्षात्कारं कृत्वा मध्यप्रदेशे जल-प्रबन्धनस्य सिञ्चनसुविधानां विस्तारेण च सह जनहितसम्बद्धेषु विषयेषु चर्चा कृता। अस्मिन् अवसरे मध्यप्रदेशस्य विकासे केन्द्रसर्वकारस्य निरन्तर-सहयोगाय तेन केन्द्रीयमन्त्रिणः आभारः व्यक्तः।

मिलनसमये प्रदेशे जलप्रबन्धनस्य सिञ्चनसुविधानां विस्तारस्य च विषये, जनहितसम्बद्धेषु विषयेषु च विचारविमर्शः अभवत्। मुख्यमन्त्रिणा उक्तं यत् केन्द्रसर्वकारस्य राज्यसर्वकारस्य च समन्वितप्रयत्नैः मध्यप्रदेशे जल-संसाधनानां विकासाय संरक्षणाय च नूतना गतिः प्राप्यते।

Hindusthan Samachar / Divya Ranjan