Enter your Email Address to subscribe to our newsletters


केन्द्रीयमन्त्रिणा सिन्धिया इत्यनेन शिवपुरी-अमृतभारतरेलस्थानकस्य निर्माणाधीनस्य पोहरीरेल-उपरिसेतोश्च निरीक्षणं कृतम्
शिवपुरी, ०१ सेप्टेम्बरमासः (हि.स.)। केन्द्रीयसञ्चारपूर्वोत्तरक्षेत्रविकासमन्त्रिणा ज्योतिरादित्यसिन्दिया इत्यनेन उक्तं यत् सम्प्रति एव प्रधानमन्त्रिणा नरेन्द्रमोदिना लोकार्पितं शिवपुरीनगरस्य आधुनिकम् अमृतभारतरेलस्थानकं क्षेत्रे उत्तमां रेलसम्पर्कव्यवस्थां यात्रिसुविधां च नूतनां गतिं प्रददाति। आधुनिकसुविधाभिः सुसज्जितम् एतत् स्थानकं शिवपुरी-नगरस्य नागरिकेभ्यः अधिक-सुविधा-जनकस्य उत्तमस्य च रेलयात्रानुभवस्य अवसरं प्रदास्यति।
केन्द्रीयमन्त्री सिन्धिया मध्यप्रदेशस्य शिवपुरीजनपदस्य प्रवासस्य द्वितीयदिने मङ्गलवासरे नवनिर्मितस्य शिवपुरी-अमृतभारतरेलस्थानकस्य भ्रमणानन्तरं जनान् सम्बोधयन् एतत् उक्तवान्। ततः पूर्वं तेन शिवपुरीरेलस्थानके यात्रिसुविधानां व्यवस्थायाश्च निरीक्षणं कृतम्। तेन निर्माणाधीनस्य पोहरीरेल-उपरिसेतोः निरीक्षणं कृत्वा कार्यप्रगतेः विषये सूचनाऽपि प्राप्ता।
केन्द्रीयमन्त्रिणा निर्माणाधीनस्य पोहरीरेल-उपरिसेतोः अपि निरीक्षणं कृतम्। तेन उक्तं यत् अयं सेतुः क्षेत्रे आवागमनं अधिकं सुगमं सुरक्षितं च करिष्यति तथा यातायातव्यवस्थां सुदृढां करिष्यति। तेन उक्तं यत् अमृतभारतरेलस्थानकं रेल-उपरिसेतुः च इत्यादयः परियोजनाः शिवपुरीनगरस्य व्यापारं पर्यटनम् आवागमनं च सुदृढीकृत्य क्षेत्रस्य विकासाय नूतनां गतिं प्रदास्यन्ति।
निरीक्षणसमये विधायकः देवेन्द्रजैनः, जन-पदाधिकारी अर्पितवर्मा, आरक्षकाधीक्षकः याङ्चेनडोल्करभूटिया, नगरपालिका-ध्यक्ष्या गायत्रीशर्मा, जनपदाध्यक्षः जसवन्तजाटवः, पूर्वमन्त्री सुरेशराठखेड़ा इत्यादयः अन्ये जनप्रतिनिधयश्च उपस्थिताः आसन्।
सिन्धिया इत्यनेन शिवपुरीनगराय १७.५० कोटिरूप्यकाधिकानां विकासपरि-योजनानां उपहारः प्रदत्तः
केन्द्रीयसञ्चारमन्त्रिणा ज्योतिरादित्य-सिन्धिया इत्यनेन मङ्गलवासरे शिवपुरीप्रवासस्य अवधौ क्षेत्राय १७.५० कोटिरूप्यकाधिकानां विकासकार्याणाम् उपहारं प्रदत्तम्। तेन अनुसूचितजातीनां पञ्चाशत्-आसनात्म-कस्य पूर्व-माध्यमिकबालक-छात्रावासस्य, तानपुर-प्राथमिक-स्वास्थ्यकेन्द्रस्य, सिंहनिवास-विद्युत्उ-पकेन्द्रस्य ठर्राउपतहसीलस्य च लोकार्पणं कृतम्। तथैव नगरपालिकायाः विभिन्नमार्गाणां सिंहनिवासे च सर्वकारीयमाध्यमिक-विद्यालयभवनस्य निर्माणकार्यस्य भूमिपूजनं कृतम्।
तेन ४.९९ कोटिरूप्यकाणां व्ययेन निर्मितस्य अनुसूचितजातीनां पञ्चाशत्-आसनात्मकस्य पूर्वमाध्यमिकबालक-छात्रावासस्य लोकार्पणं कृतम्। अस्मिन् अवसरे तेन उक्तं यत् बाबासाहेबः डॉ. भीमरावआम्बेडकरः शिक्षां सामाजिक-सशक्तीकरणस्य सर्व-प्रमुखं माध्यमम् अमन्यत। एतस्याः भावनायाः अनुरूपम् अयं छात्रावासः बालकेभ्यः उत्तमशिक्षायाः सुविधानां व्यक्तित्वविकासस्य च वातावरणं प्रदास्यति, येन ते स्वप्नानां पूर्तये नूतनम् उड्डयनं कर्तुं शक्नुवन्ति।
ततः अनन्तरं सिन्धिया इत्यनेन तानपुरे २.९५ कोटिरूप्यकाणां व्ययेन निर्मितस्य प्राथमिकस्वास्थ्यकेन्द्रस्य सिंहनिवासे २.७७ कोटिरूप्यकाणां व्ययेन निर्मितस्य विद्युत्उपकेन्द्रस्य च लोकार्पणं कृतम्। अस्मिन् अवसरे तेन विश्वासः व्यक्तः यत् एताभिः परियोजनाभिः क्षेत्रवासिभ्यः उत्तमस्वास्थ्यसुविधानां सुदृढायाः विश्वसनीयायाश्च विद्युत्प्रदायव्यवस्थायाः लाभः प्राप्स्यते।
तेन नगरपालिकायाः विभिन्नमार्गाणां पञ्चकोटिरूप्यकाणां निर्माणकार्याणां भूमिपूजनं कृतम्। तेन सह सिंहनिवासे ५१ लक्षरूप्यकाणां व्ययेन निर्मितव्यस्य सर्वकारीयमाध्यमिकविद्यालयभवनस्य ठर्रायां १.२४ कोटिरूप्यकाणां व्ययेन निर्मितस्य उपतहसीलकार्यालयस्य च लोकार्पणं कृतम्।
तेन उक्तं यत् शिवपुरीनगरे शिक्षायाः आरभ्य स्वास्थ्यं, विद्युत्, मार्गाः प्रशासनिकसुविधाश्च यावत् विकासस्य लाभः प्रत्येकं परिवारं प्रति प्रापयितुं अस्माकं प्राथमिकता अस्ति। प्रधान-मन्त्रिणः नरेन्द्रमोदिनः मुख्यमन्त्रिणः डॉ. मोहनयादवस्य च नेतृत्वे शिवपुरीसहिते सम्पूर्णे क्षेत्रे विकासकार्याणां निरन्तरं गतिः वर्ध्यते।
कार्यक्रमे शिवपुरीविधायकः देवेन्द्रजैनः, जनपदाध्यक्षः जसमन्तजाटवः नगरपालि-काध्यक्ष्या गायत्रीशर्मा च अपि सम्बोधितवन्तः। अस्मिन् अवसरे जनपदाधिकारी अर्पितवर्मा, आरक्षका-धीक्षकः याङ्चेनडोल्करभूटिया, जनपद-पञ्चायताध्यक्ष्या नेहा-अमितयादवा, जनपदपञ्चायत् शिवपुरी-अध्यक्षा हेमलतारावत् इत्यादयः अन्ये जनप्रतिनिधयः, विभिन्नविभागानाम् अधिकारिणः, विद्यालयीयाः छात्राः छात्राश्च बहुसंख्यकाः नागरिकाश्च उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan