Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १ सितम्बरमासः (हि.स.)। लोकसभाध्यक्षः ओमबिरला, राज्यसभायाः उपसभापतिः हरिवंशः, संसदः सदस्याः अन्ये च गणमान्यजनाः मङ्गलवासरे संविधान-सदनस्य केन्द्रीयकक्षे लोक-सभायाः पूर्वसभाध्यक्षाय पी. ए. सङ्गमाय तस्य जयन्त्यां पुष्पाञ्जलिं समर्पितवन्तः।
उल्लेखनीयं यत् मेघालयस्य पश्चिमगारो-पर्वतजनपदे १ सितम्बर १९४७ तमे वर्षे जन्म प्राप्तवान् पूर्णो अगितोक सङ्गमा राष्ट्रवादीकाङ्ग्रेसदलस्य सह-संस्थापकः, अनन्तरं च नेशनल पीपल्स पार्टी इत्यस्य संस्थापकः अभवत्। अनन्तरं सः पी. वी. नरसिंहरावस्य सर्वकारे केन्द्रीयमन्त्रीरूपेण (सूचनाप्रसारण-मन्त्रालयादिषु) कार्यं कृतवान्। ततः सः १९८८ तः १९९० पर्यन्तं मेघालयस्य चतुर्थमुख्यमन्त्रीरूपेण कार्यरतः अभवत्। १९९६ तमस्य वर्षस्य मे-मासात् १९९८ तमस्य वर्षस्य मार्चमास-पर्यन्तं सः लोकसभायाः सभाध्यक्षपदे आसीत्। अस्मिन् पदे सः सर्वसम्मत्या निर्वाचितः आसीत्।
/ अंशु गुप्ता