Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 01 सितम्बरमासः(हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी मङ्गलवासरे ‘एक्स’ इति सामाजिकमाध्यमे प्रकाशिते सुभाषिते व्यक्तेः कार्ययोजनां पूर्णतया कार्यान्वितं यावत् तस्याः गोपनीयतां रक्षितुं महत्त्वं रेखाङ्कितवान्।
प्रधानमन्त्री मोदी ‘एक्स’ इत्यत्र संस्कृतस्य एकं श्लोकं लिखितवान्— “‘यस्य कृत्यं न जानन्ति मन्त्रं वा मन्त्रितं परे। कृतमेवास्य जानन्ति स वै पण्डित उच्यते॥’” अस्य भावार्थः अस्ति यत् यस्य पुरुषस्य कार्याणां योजनानां गोपनीयविचाराणां रणनीतीनां च विषये अन्ये जनाः तावत् न जानन्ति, यावत् तानि कार्याणि सफलतापूर्वकं पूर्णानि न भवन्ति, सः संयमी, विवेकी, गम्भीरश्च पुरुष एव वास्तवतः बुद्धिमान् इति कथ्यते।
---------------
Hindusthan Samachar / Dheeraj Maithani